धारिणो न नमेद्विद्वान्नासनं चापि दापयेत्
कृतांजलिरुपासीत गच्छंतं पृष्ठतोन्वियात्
नामुक्तकेशैर्भोक्तव्यं न नग्नः स्नानमाचरेत् 4.205.
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः
नान्यत्र पुत्र शिष्याभ्यां शिफया ताडनं स्मृतम्
न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं नरैः
न भुक्तोत्तरकालं च न गम्भीरजलाशये
तिलपिष्टं च नाश्नीयात्तथास्यायुर्न हीयते
परीवादं न शृणुयादन्येषामपि जल्पताम्
गारुडानि च रत्नानि बिभृयात्प्रयतो नरः
सिताः सुमनसो हृद्या बिभृयाच्च नरः सदा
प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत्
न दुष्टयानमारोहेत्कूलच्छाया न संश्रयेत् 4.205.
बंधकीबंधकीभर्तृक्षुद्रानृत कथैः सह
बुधो मैत्रीं न कुर्वीत नैकः पंथानमाश्रयेत् ।। नावगाहेज्जलौघस्य वेगमग्रे नरेश्वरा
प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं तरोः
न कुर्याद्दन्तसंवर्षं न कुर्याच्चलनासिकाम्
नोच्चैर्हसेत्सशब्दं च न मुञ्चेत्पवनं बुधः
न श्मश्रु भक्षयेच्चैव न लोष्ठानि च मर्दयेत्
नोच्चासने समासीत गुरोरग्रे कदाचन
लोकद्वये शुभं प्रेप्सुः प्रेत्य स्वर्गे महीयते
दुष्टस्त्रीसंनिकर्षं च वर्जयेन्निशि सर्वदा
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा 4.205.
पंथा देयो ब्राह्मणेभ्यो राजभ्यः स्त्रीभ्य एव च
मूकांधबधिराणां च मत्तस्योन्मत्तकस्य च
न हीदृशमनायुष्यं लोके किञ्चन विद्यते
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याः प्रयत्नतः
मूर्खोन्मत्तव्यसनिनो विरूपान्मानिनस्तथा
पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः
नोर्ध्वजानुश्चिरं तिष्ठेन्न रहस्यपरो भवेत्