अदृष्टमश्रुतं वेदं पुरुषं धर्मचारिणम्
ये नास्तिका नैष्ठिकाश्च गुरुशास्त्रातिलंघिनः
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थावनुचिन्तयेत् 4.205.
उदङ्मुखो दिवारात्रावुत्सर्गं दक्षिणामुखः
एवमेवोत्तरां संध्यां समुपासीत वाग्यतः
ऋषयो दीर्घतपसा दीर्घमायुरवाप्नुयुः
सर्वांस्तान्धार्मिको राजा शूद्रकर्मणि योजयेत्
शिरसा प्रावृतेनैव समास्तीर्य तृणैर्महीम्
न मूत्रमधितिष्ठेत न कृष्टे न च गोव्रजे
कृतशौचावशिष्टाश्च वर्जयेत्पञ्च वै मृदः
कुर्वीत सम्यगाचम्य तद्वदन्नभुजि क्रियाम्
आचामेत्प्रयतः सम्यक्प्राङ्मुखोदङ्मुखोऽपि वा
तत्सांनिध्ये गृहस्थस्य सिद्धिरत्र परत्र च 4.205.
अर्धेनाहारचरणनित्यनैमित्तिकांतकम्
तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप
पूर्वाह्न एव कार्याणि देवतानां च पूजनम्
उच्छिष्टोत्सर्जनं दूरात्सदा कार्यं हितैषिणा
नित्योच्छिष्टः संकरकृन्नेहायुर्विंदते महत्
उदक्यादर्शनस्पर्शं कुर्यात्संभाषणं न च
नाधितिष्ठेच्छकृन्मूत्रे केशभस्मकपालिकान्
धारिणो न नमेद्विद्वान्नासनं चापि दापयेत्
कृतांजलिरुपासीत गच्छंतं पृष्ठतोन्वियात्
नामुक्तकेशैर्भोक्तव्यं न नग्नः स्नानमाचरेत् 4.205.
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः
नान्यत्र पुत्र शिष्याभ्यां शिफया ताडनं स्मृतम्
न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं नरैः
न भुक्तोत्तरकालं च न गम्भीरजलाशये
तिलपिष्टं च नाश्नीयात्तथास्यायुर्न हीयते
परीवादं न शृणुयादन्येषामपि जल्पताम्
गारुडानि च रत्नानि बिभृयात्प्रयतो नरः