तथेति सम्पूज्य च धर्ममूर्ति वचो वशिष्ठस्य ददौ स सर्वान्
यश्चाधनः पश्यति दीयमानं मेरोः प्रदानमिह धर्मपरो मनुष्यः
दुःस्वप्नं प्रशभमुपैति पठ्यमाने शैलेन्द्रे भवभयभेदने नराणाम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शर्कराचलदानविधि वर्णनं नाम चतुरधिकद्विशततमोऽध्यायः
सदाचारधर्मवर्णनम् सरहस्यः समंत्रश्च प्रारंभोद्यापनैः सह
नवग्रहमखात्सर्वं होमकर्मावधारितम्
दानधर्मस्त्वशेषेण श्रुतः सर्वार्थदर्शितः
एवं गतं मम मनो मुह्यते मधुसूदन
देवानां देवकीपुत्र नानात्वं संप्रदर्शितम्
व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः
वर्णाश्रमाचारधर्मः कस्मान्नात्र प्रदर्शितः
विशेषतश्च शक्नोति वक्तुं यदि सरस्वती
सर्वस्तरति दुर्गाणि सर्वो भद्राणि पश्यति
कथितोऽयं व्रतत्वोहो देवानुद्दिश्य यो मया 4.205.
यो ब्रह्मा स हरिः प्रोक्तो यो हरिः स महेश्वरः
पावकः कार्तिकेयोसौ कार्तिकेयो विनायकः
देवं देवीं समुद्दिश्य यः करोति व्रतं नरः
बहुप्रकारा वसुधा भेदाः साग्न्यनिलांभसाम्
कञ्चिद्देवं समाश्रित्य करोति किमपि व्रतम्
यश्चैव ते मया ख्यातो व्रतदानविधिः परः
आचारहीनं न पुनंति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः
कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः
वृत्तं यत्नेन संरक्षेद्वित्तमेति प्रयाति च
एवमाचारधर्मस्य मूलं राजन्कुलस्य च 4.205.
किं कुलेनोपदिष्टेन् विपुलेन दुरात्मनाम्
हीनजातिप्रसूतोपि शौचाचारसमन्वितः
न कुलं कुलमित्याहुराचारः कुलमुच्यते
सर्वं धर्ममयः कोऽत्र सदाचारः प्रकीर्तितः
साधूनां च यथा वृत्तं स सदाचार उच्यते
तस्मात्कुर्यादिहाचारं य इच्छेद्गतिमात्मनः