मंदारः पारिजातश्च तृतीयः कल्पपादपः
हरिचंदनसंतानौ पूर्वपश्चिमभागयोः
मंदरे कामदेवं तु कंदबस्य तले न्यसेत्
प्राङ्मुखो हेममूर्तिश्च हंसः स्याद्विपुलाचले
धान्यपर्वतवत्सर्वमावाहनमखादिकम्
ऋत्विग्भ्यश्चतुरः शैलानिमान्मंत्रानुदीरयेत् 4.204.
यस्मादानंदकारी त्वं भव शैलेंद्र सर्वदा
देवानां तत्समुत्थोऽसि पाहि नः शर्कराचल
तन्मयोऽसि महाशैल पाहि संसारसागरात्
सर्वपापविनिर्मुक्तः स याति शिवमंदिरम्
सहैव यानमातिष्ठेत्स तु विष्णुपदे दिवि
आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम् स्वयं वा क्षार लवणमश्नीयात्तदनुज्ञया
पर्वतोपस्करं सर्वं प्रापयेद्ब्राह्मणालयम्
सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः
भवंति शतशो येन राजानोऽपि पराजिताः
तस्य भानुमतीनाम भार्या त्रैलोक्यसुंदरी 4.204.
राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी
नृपकोटिसहस्रेण न कदाचित्प्रमुच्यते
विस्मयाविष्टहृदयो वसिष्ठमृषिसत्तमम्
कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्
पुरा लीलावती नाम वेश्या शिवपरायणा
हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकः
भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः
अतिरूपेण संपन्नान्घटयित्वा ततो हृदि
उज्ज्वालितास्तु तत्पत्न्या सौवर्णामरपादपाः
कृतं ताभ्यां प्रहर्षेण द्विजशुश्रूषणादिकम् 4.204.
सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम्
न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम्
उज्ज्वालनादुज्ज्वलरूपमस्याः सुजातमस्मिन्भुवनाधिपत्यम्
तस्माच्च लोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः