यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् 4.202.
यावत्कल्पशतं साग्रमुषित्वेह नराधिप
ब्रह्महत्यादिकं किंचिदत्र चामुत्र वा कृतम्
मुक्तामयं कनकविद्रुमभक्तिचित्रं चंचन्महामणिमरीचिचयोपपन्नम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नाचलदानविधिवर्णनं नाम द्वयधिकद्विशततमोऽध्यायः
रौप्याचलदानविधिवर्णनम् यत्प्रदानान्नरो याति सोमलोकं नरोत्तम
सहस्रेण पलानां तु उत्तमो रजताचलः
अशक्तो विंशतेरूर्ध्वं कारयेद्भक्तितः सदा
पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः
ब्रह्मविष्णुशिवादींश्च नितंबोऽत्र हिरण्मयः
शेषं च पूर्ववत्कृत्वा होमजागरणादिकम्
विष्कंभशैलानृत्विग्भ्यः पूजयेच्च विभूषणैः
पितॄणां वल्लभं यस्माच्छर्मदं शंकरस्य च
इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम्
सोमलोके सगंधर्वकिंनराप्सरसां गणैः 4.203.
शर्कराचलदानविधिवर्णनम् यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा
अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः
भारेणैवार्द्धभारेण कुर्याद्यश्चाल्पवित्तवान्
धान्यपर्वतवत्सर्वमासाद्य रससंयुतम्
मंदारः पारिजातश्च तृतीयः कल्पपादपः
हरिचंदनसंतानौ पूर्वपश्चिमभागयोः
मंदरे कामदेवं तु कंदबस्य तले न्यसेत्
प्राङ्मुखो हेममूर्तिश्च हंसः स्याद्विपुलाचले
धान्यपर्वतवत्सर्वमावाहनमखादिकम्
ऋत्विग्भ्यश्चतुरः शैलानिमान्मंत्रानुदीरयेत् 4.204.
यस्मादानंदकारी त्वं भव शैलेंद्र सर्वदा
देवानां तत्समुत्थोऽसि पाहि नः शर्कराचल
तन्मयोऽसि महाशैल पाहि संसारसागरात्
सर्वपापविनिर्मुक्तः स याति शिवमंदिरम्