विंशद्भारस्तु कर्तव्य उत्तमः पर्वतो बुधैः
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः
तद्वज्जागरणं कुर्यात्तद्वच्चैवाधिवासनम्
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा
इति कार्पासशैलेन्द्रं यो दद्यात्पर्वसंनिधौ
रूपवान्सुभगो वाग्मी श्रीमानतुलविक्रमः
कार्पासपर्वतमयो जगदेकबंधुर्यस्मान्नतेन रहितो वरवस्त्रयोगः 4.200.
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्पासाचलदानविधिवर्णनं नाम द्विशततमोऽध्यायः
घृताचलदानविधिवर्णनम् तेजोऽमृतमयं दिव्यं महापातकनाशनम्
पंचाशद्घृतकुम्भानामुत्तमः स्याद्घृताचलः
अल्पवित्तस्तु कुर्वीत यथाशक्त्या विधानतः
शालेयतंदुलानां च कुंभांश्च परिविन्यसेत्
वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः
अधिवासनपूर्वं च तद्वद्धोमं सुरार्चनम्
विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसे
तस्मात्तेजोमयं ब्रह्म घृते नित्यं व्यवस्थितम्
अनेन विधिना दद्याद्घृताचलमनुत्तमम् 4.201.
हंससारससंयुक्ते किंकिणीजालमालिते
विहरेत्पितृभिः सार्द्धं यावदाभूतसंप्लवम्
आज्याचलं प्रचलकुंडलसुन्दरीभिः संसेव्यमानमिह ये वितरंति मर्त्याः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे घृताचलदानविधिवर्णनं नामैकाधिकद्विशततमोऽध्यायः
रत्नाचलदानविधिवर्णनम् यत्प्रदानान्नरो याति लोकान्सप्तर्षिसेवितान्
मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः
अल्पवित्तस्तु कुर्वीत मुक्ताफलशतेन च
पूर्वेणवज्रगोमेदैर्दक्षिणेनेंद्रनीलकैः
वैडूर्यविद्रुमैः पश्चात्सावित्रो विपुलाचलः
धान्यपर्वतवच्छेषमत्रापि परिकल्पयेत्
पूजयेत्पुष्पनैवेद्यैः प्रभाते तु विसर्जनम्
यथा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः