हैमं महींद्रमणिशृंगशतैरुपेतं लोकाधिपाष्टकयुतं सहितं मुनीन्द्रैः
तिलाचलदानविधिवर्णनम् यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम्
तिलाः पवित्रमतुलं पवित्राणां च पावनम्
मधुकैटभनामानावास्तां दितिसुतौ पुरा
सहस्रं किल वर्षाणां न व्यजीवत दानवः
पतितश्च धरापृष्ठे कणशो लवशस्तथा
हतश्च हरिणा युद्धे स मधुर्बलिनां वरः
मेदिनीति ततः संज्ञामवापाचल धारिणी
स्तुतिभिश्च परं स्तुत्वा ऊचुस्त्रिदशपुंगवम् देवा ऊचुः त्वया धृतं जगद्देव त्वया सृष्टं तथैव च
त्वयीश लीयते सर्वं त्वयैव मधुसूदन
पालयंतु च देवेश हव्यकव्यानि सर्वदा 4.199.
नहि दैत्याः पिशाचा वा विप्रं कुर्वंति भारत
श्रुत्वा सुराणां तद्वाक्यं विष्णुस्तानिदमब्रवीत्
शुक्लपक्षे तु देवानां संप्रदद्यात्तिलोदकम्
तिलैः सप्ताष्टभिर्वापि समर्पितजलांजलिः
श्वकाकोपहतं यच्च पतितादिभिरेव च
एतैर्मृतैस्तिलैर्यस्तु कृत्वा पर्वतमुत्तमम्
उत्तमो दशभिर्द्रोणैर्मध्यमः पंचभिर्मतः
पूर्ववच्चापरं सर्वं विष्कंभपर्वतादिकम्
यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः
हव्ये कव्ये च यस्माच्च तिलैरेवाभिमंत्रणम् 4.199.
इत्यामंत्र्य च यो दद्यात्तिलाचलमनुत्तमम्
दीर्घायुष्ट्वमवाप्नोति इह लोके परत्र च
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः
दक्षा कुलोद्भवा चैव पुत्रपौत्रसमन्विता
कपिलादानपुण्यस्य समं फलमवाप्नुयात्
दानं तिलाचलसमं यदि चान्यदस्ति तद्भूत शास्त्रनिचयं प्रविचार्य बुद्ध्या
कार्पासाचलदानविधिवर्णनम् परमं सर्वदानानां प्रियं सर्वदिवौकसाम्
देशकालौ समासाद्य धनं श्रद्धां च यत्नतः
पूर्वोक्तेन विधानेन कृत्वा सर्वमशेषतः