यथा देवेषु विश्वात्मा प्रवरोयं जनार्दनः
प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा
मम तस्मात्परां लक्ष्मीं प्रयच्छ गुडपर्वत
विनाशश्चापि पार्वत्यास्तस्मान्मां पाहि सर्वदा
संपूज्यमानो गंधर्वैर्गौंरीलोके महीयते
आयुरारोग्यसंपन्नः शत्रुभिश्चापराजितः 4.197.
मरुत्तस्य प्रिया भार्या रूप यौवनशालिनी
ता दास्य इव वाक्यानि कुर्युस्तस्याः सदैव हि
अथ कालेन महता दुर्वासा ऋषिसत्तमः
तस्याथ सत्क्रियां कृत्त्वा दत्त्वा चार्घं यथाविधि
मुखावलोकनपरो वशे तिष्ठति सर्वदा
एतदाचक्ष्व भगवन्परं कौतूहलं मम
जानामि सर्वं सुभगे तव वृत्तमशेषतः
त्वमासीर्वैश्य महिषी गिरिव्रजपुरे पुरा
तत्र श्रुतस्त्वया वत्से ब्राह्मणानां समीपतः
विशेषतस्तत्र विप्रैः कथितो गुडपर्वतः 4.197.
तस्य दानस्य माहात्म्यात्त्वया भुक्तं वरानने
अन्यानि सप्त जन्मानि तव राज्यं भविष्यति
भूतं चैवमवश्यं च गुडपर्वतदानजम्
तस्माद्देयमिदं दानं फलमुत्तममिच्छता
दानमेतत्प्रशंसंति स्त्रीणां राज न्विशेषतः
कृष्णेष्टसुंदरदरीस्रवणाकुलेन गंधर्वसिद्धवनिताशतसेवितेन
हेमाचलदानविधिवर्णनम् यस्य प्रसादाद्भवनं वैरिच्यं याति मानवः
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः
दद्यादेकपलादूर्ध्वं यथाशक्त्या विचक्षणः
विष्कंभशैलांस्तद्वच्च कृत्वा मंत्रमुदीरयेत्
यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम
स याति परमं स्थानं यत्र देवो महेश्वरः
हेमाचलात्परं दानं न चान्यद्विद्यते क्वचित्