गन्धर्वैरप्सरोभिश्च गीयमानं यशोऽस्तु मे
हिरण्यमयपाषाणस्तस्माच्छांतिं प्रयच्छ मे
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमम्
गावो देयाश्चतुस्त्रिंशदथवा दश भारत
एकापि गुरवे देया कपिला सुपयस्विनी
य एव पूजने मंत्रास्त एवोपस्करे तथा 4.195.
स्वमंत्रेणैव सर्वेषु होमः शैलेषु शस्यते
विधानं सर्वशैलानां क्रमशः शृणु भारत
अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्
अप्सरोगणगंधर्वैराकीर्णेन विराजता
पुण्यक्षये राजराज्यमाप्नोतीह न संशयः
धान्याचलं कनकवृक्षविराजमानं विष्कंभपर्वतयुतं सुरसिद्धजुष्टम्
लवणपर्वतदानविधिवर्णनम् यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम्
उत्तमः षोडशद्रोणः कर्तब्यो लवणाचलः
वित्तहीनो यथाशक्त्या द्रोणादर्धं तु कारयेत्
विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा
शिरांसि कामदेवादींस्तद्वत्तत्र निवेशयेत्
सौभाग्यरससंभूतो यतोऽयं लवणोरसः
तस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना
विष्णुदेह समुद्भूतं यस्मादारोग्यवर्धनम्
अनेन विधिना यस्तु दद्याल्लवणपर्वतम्
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः 4.196.
कुर्वंति ये लवण पर्वतसंप्रदानं संप्राप्नुवंति दिवि ते सुमहद्विमानम्
गुडाचलदानविधिवर्णनम् यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितम्
उत्तमो दशभिर्भारैः मध्यमः पंचभिस्तथा
तद्वदामंत्रणं पूजां हेमवृक्षसुरार्चनम्
होमं जागरणं तद्वल्लोकपालाधिवासनम्