पुराणेषु च वेदेषु यज्ञेष्वध्ययनेषु च
तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात्
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः
सप्तमो घृतशैलश्च रसशैलस्तथाष्टमः
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः
शुक्लपक्षे तृतीयायामुपरागे शशिक्षये
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा प्रधानतः 4.195.
तीर्थे वायतने वापि गोष्ठे वा संगमेऽपि वा
प्रागुदक्प्रवणं तत्र प्राङ्मुखं वा विधानतः
तन्मध्ये पर्वतं कुर्याद्विष्कम्भपर्वतान्वितम्
मध्यमः पंचशतिकः कनिष्ठः स्यात्त्रिभिः शतैः
मेरुर्महाव्रीहिमयस्तु मध्यसुवर्णवृक्षत्रयसंयुतः स्यात्
यः स्याच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यसरोजरागैः
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात्
शुक्लांबरोऽन्यश्च सुराचलः स्यात्पूर्वेण कृष्णानि च दक्षिणेन
रौप्या महेंद्रप्रमुखास्तथाष्टौ संस्थापयेल्लोकपतीन्क्रमेण
वितानकञ्चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितं वा 4.195.
तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाद्यान्
कामेन कांचनमयेन विराजमानमाकारयेत्कुसुमवस्त्रविलेपनाढ्यम्
याम्येन गंधमदनोत्र निवेशनीयो गोधूमसंचयमयः कलधौतजो वा
पश्चात्तिलाचलमनेकसुगन्ध पुष्पसौवर्णपिप्पलहिरण्ययहंसयुक्तम्
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवप्रम्
माक्षीकभद्रकरसावचयेन तद्वद्रौ प्येण भास्वररसैश्च युतं विधाय
पूर्वेण हस्तमुखमत्र विधाय कुंडं कार्यस्तिलैरथ घृतेन समित्कुशैश्च
त्वं सर्वदेवगणधामनिधे च विघ्नमस्मद्गृहेष्वमरपर्वत नाशयाशु
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मंदिरम् 4.195.
यस्मादशून्यममरैर्गंधर्वैश्च शिरस्तव
एवमभ्यर्च्य तं मेरुं मन्दरं चापि पूजयेत्
शोभसे मन्दरक्षिप्रमतस्तुष्टिकरो भव