गोष्ठे देवालये वापि रथे वा स्वगृहांगणे
कुशैरास्तीर्य तां पार्थ प्रणवाक्षरमंत्रितैः
द्रौणैश्चतुर्भिः संपूर्णं तदर्धेनाथ वा पुनः
सुवर्णेन मुखं कार्यं भुजौ चक्रगदान्वितौ
शंखं च स्थापयेत्पार्श्वे वनमालां हिरण्मयीम् 4.194.
दंष्ट्राग्रलग्नवसुधां सौवर्णीं कारयेच्छुभाम्
प्रच्छाद्य वस्त्रैर्देवेशं वराहं सर्वकामदम्
नवग्रहमखः कार्यो होम श्चात्र तिलैः स्मृतः
वराहेश प्रदुष्टानि सर्वपापफलानि च
शंखचक्रासिहस्ताय हिरण्याक्षांतकाय च
इत्युच्चार्य नमस्कृत्य प्रदक्षिणमनु व्रजेत्
प्ररिग्रहस्तु तस्योक्तः पादयोः परमर्षिभिः
एवं दत्त्वा महीनाथ वराहं सर्वकामदम्
सर्वदानेषु यत्पुण्यं सर्वक्रतुषु यत्फलम्
यथाशक्त्या समुद्धृता वराहेण वसुंधरा।। यथाकुलं समुद्धत्य विष्णुलोके महीयते। ।।। 4.194.
ब्राह्मणक्षत्रियविशां स्त्रीणां शूद्रजनस्य च
विप्राय वेदविदुषे नृवराहरूपं दत्त्वा तिलामलसुवर्णमयं सवस्त्रम्
धान्यपर्वतदानविधिवर्णनम् भगवञ्छ्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्
मत्स्येन मनवे तद्वत्तच्छुणुष्व कुरूद्वह
मेरोः प्रदानं वक्ष्यामि दशधा पुनरेव ते
पुराणेषु च वेदेषु यज्ञेष्वध्ययनेषु च
तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात्
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः
सप्तमो घृतशैलश्च रसशैलस्तथाष्टमः
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः
शुक्लपक्षे तृतीयायामुपरागे शशिक्षये
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा प्रधानतः 4.195.
तीर्थे वायतने वापि गोष्ठे वा संगमेऽपि वा
प्रागुदक्प्रवणं तत्र प्राङ्मुखं वा विधानतः
तन्मध्ये पर्वतं कुर्याद्विष्कम्भपर्वतान्वितम्