प्रेतनाथाय रौद्राय तथा वैवस्वताय च
उच्चार्य श्रद्धया युक्तः प्रणिपत्य विसर्जयेत्
यमाय स सुखं मर्त्ये स्थित्वा व्याधिविवर्जितः
न पश्यति प्रेतमुखं पितृलोकं स गच्छति
महिषं सुशुभं कुंभं चतुर्दश्यां पयोभृतम्
घंटाभरणशोभाढ्यं वृषभेण समन्वितम्
वृषं दत्त्वा नरश्रेष्ठ शिवलोके महीयते
आरोग्यधनसंयुक्ते कुले महति जायते ।। 4.193.
पौर्णमास्यां वृषोत्सर्गं कारयित्वा विधानतः
पूजयेद्गंधकुसुमैर्नैवेद्यं विनिवेद्य च
मंत्रेणानेन राजेन्द्र तन्निबोध यथोदितम्
उमा पतेः शिरोरत्नशिवं यच्छ नमोनमः
अप्सरोभिः परिवृतो यावदाभूतसंप्लवम्
दानान्यमूनि विधिवत्प्रयतिक्रमेण यच्छंति ये द्विजवराय विशुद्धसत्त्वाः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिथिदानवर्णनं नाम त्रिनवत्युत्तरशततमोऽध्यायः
वराहदानविधिवर्णनम् धरण्यै यत्पुरा प्रोक्तं वराहवपुषा मया
पुण्यं पवित्रमायुष्यं सर्व दानोत्तमोत्तमम्
देयं संक्रमणे भानोर्ग्रहणे द्वादशीष्वथ
यदा च जायते वित्तं चित्तं श्रद्धासमन्वितम्
कुरुक्षेत्रादितीर्थेषु गंगाद्यासु नदीषु च
गोष्ठे देवालये वापि रथे वा स्वगृहांगणे
कुशैरास्तीर्य तां पार्थ प्रणवाक्षरमंत्रितैः
द्रौणैश्चतुर्भिः संपूर्णं तदर्धेनाथ वा पुनः
सुवर्णेन मुखं कार्यं भुजौ चक्रगदान्वितौ
शंखं च स्थापयेत्पार्श्वे वनमालां हिरण्मयीम् 4.194.
दंष्ट्राग्रलग्नवसुधां सौवर्णीं कारयेच्छुभाम्
प्रच्छाद्य वस्त्रैर्देवेशं वराहं सर्वकामदम्
नवग्रहमखः कार्यो होम श्चात्र तिलैः स्मृतः
वराहेश प्रदुष्टानि सर्वपापफलानि च
शंखचक्रासिहस्ताय हिरण्याक्षांतकाय च