दानेनानेन नृपते शिवलोको न दुर्लभः
तस्माद्वृषभदानेन दत्ता भवति भारती
मुक्ताफलाष्टकयुतं नीलवस्त्रावगुण्ठितम्
द्विजातिप्रवरायेत्थं सर्वान्कामान्समश्नुते
हिंसकास्तं न हिंसंति दानस्यास्य प्रभावतः
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः
लवणे च गुडे क्षीरे निष्पावेषु तिलेषु च
संपूज्य वस्त्रपुष्पाद्यैर्द्विजाय प्रतिपादयेत् 4.193.
निर्वापयति राजेंद्र तस्य पुण्यफलं शृणु
सकलास्तस्य सर्वाशा याः काश्चिन्मनसेच्छिताः
एकादश्यां गरुत्मंतं कारयित्वा हिरण्मयम्
पंचाग्न्यभिरते विप्रे पुराणज्ञे विशेषतः
गां वृषं महिषीं हेमं सप्तधान्यान्यजाविकम्
पुष्पाणि च विचित्राणि गंधांश्चोच्चावचान्बहून्
द्वादश्यां द्वादशैतानि ब्राह्मणेभ्यो निवेदयेत्
इह कीर्तिं परां प्राप्य भुक्त्वा भोगान्यथेप्सितान्
कर्मक्षयादिहाभ्येत्य राजा भवति धार्मिकः
स्नापयेद्ब्राह्मणांश्चात्र त्रयोदश्यां त्रयोदश ।। 4.193.
भोजयीत सुमिष्टान्नं दक्षिणां विनिवेदयेत्
धर्मराजाय कालाय चित्रगुप्ताय दंडिने
प्रेतनाथाय रौद्राय तथा वैवस्वताय च
उच्चार्य श्रद्धया युक्तः प्रणिपत्य विसर्जयेत्
यमाय स सुखं मर्त्ये स्थित्वा व्याधिविवर्जितः
न पश्यति प्रेतमुखं पितृलोकं स गच्छति
महिषं सुशुभं कुंभं चतुर्दश्यां पयोभृतम्
घंटाभरणशोभाढ्यं वृषभेण समन्वितम्
वृषं दत्त्वा नरश्रेष्ठ शिवलोके महीयते
आरोग्यधनसंयुक्ते कुले महति जायते ।। 4.193.
पौर्णमास्यां वृषोत्सर्गं कारयित्वा विधानतः
पूजयेद्गंधकुसुमैर्नैवेद्यं विनिवेद्य च