मानसं वाचिकं चापि कर्मजं यदघं भवेत्
श्रावणे कार्तिके चैत्रे वैशाखे फाल्गुने तथा
वित्तं श्रद्धासहायश्च पात्रप्राप्तिस्तथैव च
तीर्थे देवालये गोष्ठे गृहे वा नियतात्मवान्
प्रतिपत्सु द्विजान्पूज्यप्त पूजयित्वा प्रजापतिम्
कृत्वा चौदुम्बरे पात्रे सुगन्धवृतपूरिते
अनेन विधिना दत्त्वा कमलं कमलालयम्
वह्निं पूज्य द्वितीयायां भूर्भुवःस्वरिति क्रमात्
वैश्वानरं तु सौवर्णं स्थापयेत्ताम्रभाजने 4.193.१
यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः
तृतीयायां महाराज राधां स्वर्णमयीं शुभाम्
जीरकं कटुकं चैव गुडं पार्थेषु दापयेत्
पुष्पधूपैः सनैवेद्यैः पूजयित्वा द्विजातये
प्रासादा यत्र सौवर्णा नद्यः पायसकर्दमाः
स्वर्गादिहैत्य संसारे सुरूपः सुभगो भवेत्
नारी वा तद्गुणैर्युक्ता भवतीह न संशयः
कामयित्वांकुशयुतं तिलद्रोणोपरि न्यसेत्
ततस्तु ब्राह्मणे दद्याद्गणेशः प्रीयतामिति 4.193.
वारणाः सप्त जन्मानि भवंति मदविह्वलाः
पंचम्यां पन्नगं चैव स्वर्णेनैकेन कारयेत्
द्विजं संपूज्य वासोभिः प्रणिपत्य क्षमापयेत्
नागोपद्रवविद्रावि सर्वदुष्टनिबर्हणम्
षष्ठ्यां शक्तिसमोपेतं कुमारं शिखिवाहनम्
तंडुलेनाथ शिखरे वासोभिः पूज्य भक्तितः
पूजयित्वा गंधपुष्पधूपैनैवेद्यतस्तथा
इह भूतिं परां प्राप्य प्रेत्य स्वर्गे महीयते
सप्तम्यां भास्करं पूज्य ब्राह्मणानश्वमुत्तमम्
सूर्यलोकमवाप्नोति सूर्येण सह मोदते 4.193.
अष्टम्यां वृषभं श्वेतमव्यंगांगं धुरंधरम्
दद्यात्प्रणम्य विप्राय प्रीयतां वृषभध्वजः