स्वर्गे वर्षशतं साग्रमास्ते सुरगणैर्वृतः
ज्येष्ठानुज्येष्ठतामेति गतिमिष्टां च गच्छति
पितॄन्प्रीणयते सर्वान्गतिं प्राप्नोत्यनुत्तमाम्
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे
पुत्रपौत्रैः परिवृतः पशुमान्धनवांस्तथा
दत्त्वोत्तरास्वषाढासु सर्वान्कामानवाप्नुयात्
धर्मनित्यो मनीषिभ्यः स्वर्गे वसति पुण्यभाक्
स्वेच्छया याति यानेन सर्वांल्लोकान्न संशयः
सर्वत्र मानमाप्नोति यत्र यत्रेह जायते 4.192.
प्राप्नोत्यप्सरसां लोके प्रेत्य गंधांश्च शोभनान्
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत्
पितॄन्प्रीणाति सकलान्प्रेत्य चानंत्यमश्नुते
स प्रेत्य कामानादाय दातारमुपगच्छति
हस्त्यश्वरथसंपूर्णे वर्चस्वी जायते कुले
गावः प्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा
देवक्यै नारदेनैव मया च कथितस्तव
न चात्र कालनियमो नक्षत्रप्रकमस्तथा
यद्यच्च ते भगवता कमलोद्भवस्य पुत्रेण दानमुदितं प्रसमीक्ष्य वेदान्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नक्षत्रदानविधिवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः
तिथिदानवर्णनम् सर्वपापप्रशमनं सर्वविघ्नविनाशनम्
मानसं वाचिकं चापि कर्मजं यदघं भवेत्
श्रावणे कार्तिके चैत्रे वैशाखे फाल्गुने तथा
वित्तं श्रद्धासहायश्च पात्रप्राप्तिस्तथैव च
तीर्थे देवालये गोष्ठे गृहे वा नियतात्मवान्
प्रतिपत्सु द्विजान्पूज्यप्त पूजयित्वा प्रजापतिम्
कृत्वा चौदुम्बरे पात्रे सुगन्धवृतपूरिते
अनेन विधिना दत्त्वा कमलं कमलालयम्
वह्निं पूज्य द्वितीयायां भूर्भुवःस्वरिति क्रमात्
वैश्वानरं तु सौवर्णं स्थापयेत्ताम्रभाजने 4.193.१
यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः