अत्राप्युदाहरंतीममितिहासं पुरातनम्
द्वारकामनुसंजातं नारदं देवदर्शनम्
तस्याः संपृच्छमानाया देवर्षिर्नारदस्ततः
नक्षत्रयोगं वक्ष्यामि सर्वपातकनाशनम्
संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान्
संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान्
दोग्ध्नीं सवत्सां तु नरो नक्षत्रे सोमदैवते
आर्द्रायां कृशरां दत्त्वा तिलमिश्रा समाहितः
पूषान्पुनर्वसौ दत्त्वा घृतपूर्णान्सुपाचितान् 4.192.
पुष्ये तु कांचनं दत्त्वा कृतं वाकृतमेव वा
आश्लेषासु तथा रौप्यं यः सुरूपं प्रयच्छति
मघासु तिलपूर्णानि वर्धमानानि मानवः
फाल्गुनीपूर्वसमये वडवां द्विजपुंगवे
उत्तराफाल्गुनीयोगे दत्त्वा सौवर्णपंकजम्
हस्ते तु हस्तिनं दत्त्वा कांचनं शक्तितः कृतम्
चित्रासु वृषभं दत्त्वा पुण्यानां पुण्यमुत्तमम्
स्वातीषु च धनं दत्त्वा यदभीष्टमिहात्मनः
विशाखासु महाराज धुरंधरविभूषितम्
दत्त्वा प्रीणाति स पितुः प्रेत्य चानन्त्यमश्नुते 4.192.
दत्त्वा यथेष्टं विप्रेभ्यो गतिमिष्टां स गच्छति
स्वर्गे वर्षशतं साग्रमास्ते सुरगणैर्वृतः
ज्येष्ठानुज्येष्ठतामेति गतिमिष्टां च गच्छति
पितॄन्प्रीणयते सर्वान्गतिं प्राप्नोत्यनुत्तमाम्
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे
पुत्रपौत्रैः परिवृतः पशुमान्धनवांस्तथा
दत्त्वोत्तरास्वषाढासु सर्वान्कामानवाप्नुयात्
धर्मनित्यो मनीषिभ्यः स्वर्गे वसति पुण्यभाक्
स्वेच्छया याति यानेन सर्वांल्लोकान्न संशयः
सर्वत्र मानमाप्नोति यत्र यत्रेह जायते 4.192.
प्राप्नोत्यप्सरसां लोके प्रेत्य गंधांश्च शोभनान्