यथाशक्त्या च राजेन्द्र गुरुं गौरवयंत्रितः
अभ्यर्च्य दक्षिणाभिश्च ब्राह्मणांश्च विसर्जयेत्
तस्मिन्नहनि दातव्यं मित्रस्वजनबंधुषु
कुर्यान्नरो वा नारी वा प्रतिष्ठां सार्वलौकिकीम्
कुलं च तारितं तेन सत्पुत्रेण युधिष्ठिर
तावदस्याक्षया कीर्तिस्त्रैलोक्ये संप्रसर्पति
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
वसेद्धृष्टमनाः स्वर्गे यावदिंद्राश्चतु र्दश
पुत्रपौत्रान्वितः श्रीमान्दीर्घायुरतिधार्मिकः
श्रूयते च पुरा राजा रजिर्नाम महाबलः 4.191.
मही येन पुरा दत्ता देवराजस्य संगरे
महेन्द्राय महाभाग सर्वं निहतकंटकम्
तावत्तत्राजगामाथ पुलस्त्यो ब्रह्मणः सुतः
दत्तार्घस्तु तदा तेन उपविष्टो वरासने
अथ तं पूजयित्वाग्रे मधुपर्केण पार्थिवः
भगवन्केन दानेन तपसा नियमेन वा
बलं पुष्टिं धनं धान्यं पुत्रपौत्रं तथोत्तमम्
कथ्यमानां मया सम्यक्सप्तमे तव जन्मनि
कथेयमभिनिर्वृत्ता शृणुष्वैश्वर्यवर्द्धिनीम्
बहुभृत्यपरीवारो धनधान्यसमन्वितः 4.191.
तत्र त्वया श्रुता धर्मा धर्माख्यानगतेन वै
प्रसंगेन कदाचिच्च प्रतिष्ठा भौवनी त्वया
फलेन तेन जातोऽसि सप्त जन्मानि भूपतिः
अपराण्यपि जन्मानि सप्त राजा भविष्यसि
एतत्ते सर्वमाख्यातं यन्मां परिपृच्छसि
प्रकरोति विधानेन कृतकृत्यो भवेद्बुधः
ययावदर्शनं तत्र सूर्ये वैश्वानरोपमः
धर्मं विवर्द्धयति कीर्तिं शतानि धत्ते कामं प्रसाधयति पापमपाकरोति
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भुवनप्रतिष्ठावर्णनं नामैकनवत्युत्तरशततमोऽध्यायः
नक्षत्रदानविधिवर्णनम् नक्षत्रदानस्येदानी दानकल्पं प्रचक्ष्व मे