ब्रह्मा विष्णुस्तथा रुद्रो ह्यादित्या वसवस्तथा
एवं पटं तं संपूज्य कृत्वा चैव प्रदक्षिणम्
शंखतूर्यनिनादैश्च जागरं कारयेत्ततः
पुनः प्रभाते विमले स्नात्वा शुचिरलंकृतः
ऋत्विक्पूजां ततः कृत्वा गोशतेन विचक्षणः
उपानहौ तथा छत्रं गृहोपकरणानि च
ततः प्रकल्पयेद्यानं नागयुक्तमलंकृतम्
सहस्रं दक्षिणां दत्त्वा ततस्त्वारोपयेत्पटम्
तत्रस्थं स्थापयेन्नीत्वा गन्धैः पुष्पैश्च धूपयेत्
यस्मिन्नायतने तस्य प्रतिष्ठा क्रियते नृप 4.191.
यथाशक्त्या च राजेन्द्र गुरुं गौरवयंत्रितः
अभ्यर्च्य दक्षिणाभिश्च ब्राह्मणांश्च विसर्जयेत्
तस्मिन्नहनि दातव्यं मित्रस्वजनबंधुषु
कुर्यान्नरो वा नारी वा प्रतिष्ठां सार्वलौकिकीम्
कुलं च तारितं तेन सत्पुत्रेण युधिष्ठिर
तावदस्याक्षया कीर्तिस्त्रैलोक्ये संप्रसर्पति
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
वसेद्धृष्टमनाः स्वर्गे यावदिंद्राश्चतु र्दश
पुत्रपौत्रान्वितः श्रीमान्दीर्घायुरतिधार्मिकः
श्रूयते च पुरा राजा रजिर्नाम महाबलः 4.191.
मही येन पुरा दत्ता देवराजस्य संगरे
महेन्द्राय महाभाग सर्वं निहतकंटकम्
तावत्तत्राजगामाथ पुलस्त्यो ब्रह्मणः सुतः
दत्तार्घस्तु तदा तेन उपविष्टो वरासने
अथ तं पूजयित्वाग्रे मधुपर्केण पार्थिवः
भगवन्केन दानेन तपसा नियमेन वा
बलं पुष्टिं धनं धान्यं पुत्रपौत्रं तथोत्तमम्
कथ्यमानां मया सम्यक्सप्तमे तव जन्मनि
कथेयमभिनिर्वृत्ता शृणुष्वैश्वर्यवर्द्धिनीम्
बहुभृत्यपरीवारो धनधान्यसमन्वितः 4.191.