शंखभेरीनिनादैश्च गीतमंगलनिस्वनैः
आचार्यमपि संपूज्य वासोभिर्भूषणैस्तथा
मध्ये च लेखयेद्राजञ्जंबूद्वीपं सविस्तरम्
दिशासु लोकपालानां पुरोऽष्टौ सुरसंयुताः
सागराः सप्त चात्रैव नद्यो ह्रदाः सरांसि च
ब्रह्मविष्णुशिवादीनां भुवनानि यथाक्रमम्
देवदानवगन्धर्वा यक्ष राक्षसपन्नगाः
सुपर्णाद्याश्च विहगा नागाश्चैरावतादयः
एवंविधं पटं राजन्कारयित्वा सुशोभनम्
तत्तेजसा वृतं भूयो महतोग्रेण सर्वतः 4.191.
भूतादिना तथाकाशं भूतादिर्महता तथा
अव्यक्तं तमसा व्याप्तं तमश्च रजसा तथा
एवमावरणोपेतं ब्रह्मांडमखिलं नृप
एतत्सर्वं पटस्थं तु कृत्वा चित्रमयं सुधीः
पूजयेद्येन विधिना तत्समासेन मे शृणु
तत्र कुण्डानि चत्वारि चतुरस्राणि कारयेत्
यज्ञोपकरणोपेतौ वस्त्राभरणभूषितौ
पटे स्थितानां देवानां मंत्रैरोंकारपूर्वकैः
आचार्येणसमं कुर्यात्पूजामग्रे पटस्य तु
ब्रह्मांडोदरवर्तीनि भुवनानि चतुर्दश 4.191.
ब्रह्मा विष्णुस्तथा रुद्रो ह्यादित्या वसवस्तथा
एवं पटं तं संपूज्य कृत्वा चैव प्रदक्षिणम्
शंखतूर्यनिनादैश्च जागरं कारयेत्ततः
पुनः प्रभाते विमले स्नात्वा शुचिरलंकृतः
ऋत्विक्पूजां ततः कृत्वा गोशतेन विचक्षणः
उपानहौ तथा छत्रं गृहोपकरणानि च
ततः प्रकल्पयेद्यानं नागयुक्तमलंकृतम्
सहस्रं दक्षिणां दत्त्वा ततस्त्वारोपयेत्पटम्
तत्रस्थं स्थापयेन्नीत्वा गन्धैः पुष्पैश्च धूपयेत्
यस्मिन्नायतने तस्य प्रतिष्ठा क्रियते नृप 4.191.