नृपश्चैव महादेवं मरुस्थलनिवासिनम् चंदनादिभिरभ्यर्च्य तुष्टाव मनसा हरम्
भोजराज उवाच त्रिपुरासुरनाशाय वहुमायाप्रवर्त्तिने
म्लेच्छैर्गुप्ताय शुद्धाय सच्चिदानन्दरूपिणे
गंतव्यं भोजराजेन महाकालेश्वरस्थले
म्लेच्छैस्सुदूषिता भूमिर्वाहीका नाम विश्रुता 3.3.3.
बभूवात्र महामायी योऽसौ दग्धो मया पुरा
अयोनिः स वरो मत्तः प्राप्तवान्दैत्यवर्द्धनः
नागन्तव्यं त्वया भूप पैशाचे देशधूर्तके
इति श्रुत्वा नृपश्चैव स्वदेशान्पुनरागमत्
उवाच भूपतिं प्रेम्णा मायामदविशारदः
ममोच्छिष्ठं सभुंजीयाद्यथा तत्पश्य भो नृप
म्लेच्छधर्मे मतिश्चासीत्तस्य भूपस्य दारुणे
तच्छ्रुत्वा कालिदासस्तु रुषा प्राह महामदम्
हनिष्यामि दुराचारं वाहीकं पुरुषाधमम्
जप्त्वा दशसहस्रं च तद्दशांशं जुहाव सः 3.3.3.
गृहीत्वा स्वगुरोर्भस्म मदहीनत्वमागतम्
स्थापितं तैश्च भूमध्ये तत्रोषुर्मदतत्पराः
रात्रौ स देवरूपश्च बहुमायाविशारदः
आर्य्यधर्मो हि ते राजन्सर्वधर्मोत्तमः स्मृतः
लिंगच्छेदी शिखाहीनः श्मश्रुधारी स दूषकः
विना कौलं च पशवस्तेषां भक्ष्या मता मम
तस्मान्मुसलवन्तो हि जातयो धर्मदूषकाः
इत्युक्त्वा प्रययौ देवः स राजा गेहमाययौ
शूद्रेषु प्राकृती भाषा स्थापिता तेन धीमता
स्थापिता तेन मर्य्यादा सर्वदेवोपमानिनी 3.3.3.
आर्य्य वर्णाः स्थितास्तत्र विंध्यान्ते वर्णसंकराः
बर्बरे तुषदेशे च द्वीपे नानाविधे तथा
जाताश्चाल्पायुषो मन्दास्त्रिशताब्दान्तरे मृताः
बहुभूपवती भूमिस्तेषां राज्ये बभूव ह
तदन्वये त्रिभूपाश्च द्विशताब्दान्तरे मृताः