लोकपालाष्टकं षष्ठे दिङ्मातंगास्तथैव च
अन्तरांतरतो देवान्विन्यसेदष्टमे पुनः 4.190.
मंडपं कुण्डमेकं च कारयेद्वस्त्रसंयुतम्
कृष्णाजिनोपरिगतं विश्वचक्रं विधानतः
पूर्णकुम्भाष्टकं तद्वद्वस्त्रमाल्यविभूषितम्
अधिवास्य ततश्चक्रं पश्चाद्धोमं समाचरेत्
होमं कुर्युर्जितात्मानो वस्त्राभरणभूषिताः
चक्रप्रतिष्ठितानां तु सुराणां होम इष्यते
ततो मंगलशब्देन स्नातः शुक्लांबरो गृही
इममुच्चारयन्मंत्रं कृत्वा तत्त्रिःप्रदक्षिणम् परमानंदरूपी त्वं पाहि नः पापकर्दमात्
तेजोमयमिदं यस्मात्सदा पश्यंति सूरयः
वासुदेवे स्थितं चक्रं तस्य मध्ये तु माधवः ।। 4.190.
विश्वचक्रमिदं यस्मात्सर्वपापहरं हरेः
इत्यामंत्र्य च यो दद्याद्विश्वचक्रं विमत्सरः
वैकुण्ठलोकमासाद्य चतुर्बाहुनरावृतम्
प्रणमेद्वाथ यः कृत्वा विश्वचक्रं दिनेदिने
तस्माच्चक्रं सदा कार्यं धार्यं च स्वगृहे नरैः
इति सकलजगत्सुराधिवासं वितरति यस्तपनीयषोडशारम्
अथ सुदर्शनतां प्रयाति शत्रोर्मदनसुदर्शनतां च कामिनीभ्यः
कृतगुरुदुरितोऽपि षोडशारप्रवितरणात्प्रवराकृतिर्मुरारेः
भुवनप्रतिष्ठावर्णनम् इह लोके परे चैव कीर्तिरत्यद्भुता तथा
सद्गतिं च तथा यांति सर्वे पितृपितामहाः
स्थापनात्सर्वदेवानां कथं स्याद्यदुनंदन
शृणुष्वैकमना भूत्वा गुह्यं परममुत्तमम्
भुवनानां समासेन प्रतिष्ठां कथयामि ते
प्रेताः पिशाचा भूताश्च स्थापिताः स्युर्न संशयः
पुण्ये तिथौ शिवक्षेत्रे दिने सौम्यग्रहान्विते
अभिन्नांगं दृढं शुद्धं शुद्धस्फटिकवर्चसम्
चातुर्वर्ण्यकमानीय विचित्रं चित्रकर्मणि
संपूजयित्वा यत्नेन दिव्यवासोविभूषणैः 4.191.