तत्प्रतिग्राहकं विप्रं वेदवेदांगपारगम्
प्रतिग्रहश्च तस्योक्तः पुच्छ देशे स्वयंभुवा
न पश्येद्वदनं पश्चान्न चैनमभिभाषयेत्
समग्रं भूमिदानस्य फलं प्राप्नोति मानवः
ये प्रयच्छंति विप्राय न ते शोच्या भवंति वै
आभूतसंप्लवं यावत्स्वर्गं प्राप्ता न संशयः
प्रतिग्रहोपि पापीयानिति वेदविदो विदुः
तत्सर्वं नाशमायाति दत्त्वा कृष्णाजिनं क्षणात् ।। 4.188.
कृष्णेक्षणं कृष्णमृगस्य चर्म दत्त्वा द्विजेद्राय समाहितात्मा
हेमहस्तिदानविधिवर्णनम् यस्य प्रदानाद्भवनं वैष्णवं याति मानवः
पर्वकालं समासाद्य संक्रांतौ ग्रहणेऽपि वा
वलभीभिर्विचित्राभिश्चतुश्चक्रसमन्वितम्
ध्वजे च गरुडं कुर्यात्कूबराग्रे विनायकम्
मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम्
नानाफलसमायुक्तमुपरिष्टाद्वितानकम्
कुर्यात्पंचपलादूर्ध्वमाशताच्च नरोत्तम
त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः
नमोनमः शंकरपद्मजार्कलोकेशविद्याधरवासुदेवैः
यत्तत्पदं परमगुह्यतमं पुराणमानंदहेतुगणरूपविमुक्तबन्धाः 4.189.
यस्मात्त्वमेव भवसागरसंप्लुतानामानंदभांडचितमध्यगपानपात्रम्
इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत्सकलपापविमुक्तदेहः
कृतदुरितवितानातुष्टिसद्वह्निपालव्यतिकरकृतदेहोद्वेगभानोऽपि बंधून्
विश्वचक्रदानविधिवर्णनम् विश्वचक्रमिति ख्यातं सर्वपापविनाशनम्
तपनीयस्य शुद्धस्य विशुद्धात्माथ कारयेत्
तस्याप्यर्द्धं कनिष्ठं स्याद्विश्वचक्रमुदाहृतम्
षोडशारं ततश्चक्रं भ्रमन्नेम्यष्टकावृतम्
शंखचक्रेऽस्य पार्श्वस्थे देव्यष्टकसमावृतम्
अत्रिर्भृगुर्वशिष्ठश्च ब्रह्मा कश्यप एव च
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश
चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च