देयमेतन्महादानं द्रव्यमात्रागमे तथा
पुराणाभिरतो दक्षो देयं तस्मै च पार्थिव
गोमयेनोपलिप्ते तु शुचौ देशे नराधिप
कर्तव्यं रुक्मशृंगं तद्रौप्यदंतं तथैव च
तिलैः कृत्वा शिरो राजन्वाससाच्छादयेद्बुधः
पुष्पैर्गंधैः फलैश्चैव नैवेद्येन च पूजयेत्
कांस्यपात्राणि चत्वारि तेषु दद्याद्यथाक्रमम्
ततः सर्वसमीपे तु मंत्रमेतमुदीरयेत् 4.188.
त्वद्दानापास्तपापस्य प्रीयतां मे नमोनमः
कृष्णोऽसि मूर्तिमान्साक्षात्कृष्णाजिन नमोऽस्तु ते
तत्प्रतिग्राहकं विप्रं वेदवेदांगपारगम्
प्रतिग्रहश्च तस्योक्तः पुच्छ देशे स्वयंभुवा
न पश्येद्वदनं पश्चान्न चैनमभिभाषयेत्
समग्रं भूमिदानस्य फलं प्राप्नोति मानवः
ये प्रयच्छंति विप्राय न ते शोच्या भवंति वै
आभूतसंप्लवं यावत्स्वर्गं प्राप्ता न संशयः
प्रतिग्रहोपि पापीयानिति वेदविदो विदुः
तत्सर्वं नाशमायाति दत्त्वा कृष्णाजिनं क्षणात् ।। 4.188.
कृष्णेक्षणं कृष्णमृगस्य चर्म दत्त्वा द्विजेद्राय समाहितात्मा
हेमहस्तिदानविधिवर्णनम् यस्य प्रदानाद्भवनं वैष्णवं याति मानवः
पर्वकालं समासाद्य संक्रांतौ ग्रहणेऽपि वा
वलभीभिर्विचित्राभिश्चतुश्चक्रसमन्वितम्
ध्वजे च गरुडं कुर्यात्कूबराग्रे विनायकम्
मध्ये नारायणोपेतं लक्ष्मीपुष्टिसमन्वितम्
नानाफलसमायुक्तमुपरिष्टाद्वितानकम्
कुर्यात्पंचपलादूर्ध्वमाशताच्च नरोत्तम
त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः
नमोनमः शंकरपद्मजार्कलोकेशविद्याधरवासुदेवैः
यत्तत्पदं परमगुह्यतमं पुराणमानंदहेतुगणरूपविमुक्तबन्धाः 4.189.
यस्मात्त्वमेव भवसागरसंप्लुतानामानंदभांडचितमध्यगपानपात्रम्