मध्ये तु फलसंयुक्तं पुरुषेण समन्वितम्
एवंविधं पूजयित्वा माल्यगंधानुलेपनैः
शुक्लमाल्यांबरधर इमं मंत्रमुदीरयेत्
नमोनमः पापविनाशनाय विश्वात्मने देवतुरंगमाय 4.187.
वस्वष्टकादित्यमरुद्गणानां त्वमेव धाता परमं निधानम्
इति तुरगरथप्रदानमेतद्भवभयसूदनमंत्रं यः करोति
देदीप्यमानवपुषा च जितप्रभावमाक्रम्य मडलमखंडलचंडभानोः
इति पठति शृणोति वा य एतत्कनकतुरंगरथप्रदानमस्मिन्
कृष्णाजिनदानविधिवर्णनम् ब्राह्मणं च समाचक्ष्व तत्र मे संशयो महान्
श्रीकृष्ण उवाच युगादिषूपरागेषु संक्रांतौ दिनसंक्षये
देयमेतन्महादानं द्रव्यमात्रागमे तथा
पुराणाभिरतो दक्षो देयं तस्मै च पार्थिव
गोमयेनोपलिप्ते तु शुचौ देशे नराधिप
कर्तव्यं रुक्मशृंगं तद्रौप्यदंतं तथैव च
तिलैः कृत्वा शिरो राजन्वाससाच्छादयेद्बुधः
पुष्पैर्गंधैः फलैश्चैव नैवेद्येन च पूजयेत्
कांस्यपात्राणि चत्वारि तेषु दद्याद्यथाक्रमम्
ततः सर्वसमीपे तु मंत्रमेतमुदीरयेत् 4.188.
त्वद्दानापास्तपापस्य प्रीयतां मे नमोनमः
कृष्णोऽसि मूर्तिमान्साक्षात्कृष्णाजिन नमोऽस्तु ते
तत्प्रतिग्राहकं विप्रं वेदवेदांगपारगम्
प्रतिग्रहश्च तस्योक्तः पुच्छ देशे स्वयंभुवा
न पश्येद्वदनं पश्चान्न चैनमभिभाषयेत्
समग्रं भूमिदानस्य फलं प्राप्नोति मानवः
ये प्रयच्छंति विप्राय न ते शोच्या भवंति वै
आभूतसंप्लवं यावत्स्वर्गं प्राप्ता न संशयः
प्रतिग्रहोपि पापीयानिति वेदविदो विदुः
तत्सर्वं नाशमायाति दत्त्वा कृष्णाजिनं क्षणात् ।। 4.188.
कृष्णेक्षणं कृष्णमृगस्य चर्म दत्त्वा द्विजेद्राय समाहितात्मा
हेमहस्तिदानविधिवर्णनम् यस्य प्रदानाद्भवनं वैष्णवं याति मानवः