दत्त्वा पापक्षयाद्भानोर्लोकमाप्नोति शाश्वतम् 4.186.
पुराणश्रवणं तद्वत्कारयेद्भोजनादनु
इत्थं हिरण्याश्वविधिं करोति यः सुपुण्यमासाद्य दिनं नरेंद्र
इति पठति य इत्थं हैमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूपः
यो वा शृणोति पुरुषोऽप्यथ वा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमानम्
हिरण्याश्वरथदानविधिवर्णनम् पुण्यं हेमरथं नाम महापातकनाशनम्
पुण्येऽह्नि विप्रकथिते स्वनुलिप्ते गृहांगणे
चतुरस्रं महाभाग चतुश्चक्रं सकूबरम्
इंद्रनीलेन कुंभेन ध्वजरूपेण संयुतम्
चत्वारः पूर्णकलशा धान्यान्यष्टादशैव तु
मध्ये तु फलसंयुक्तं पुरुषेण समन्वितम्
एवंविधं पूजयित्वा माल्यगंधानुलेपनैः
शुक्लमाल्यांबरधर इमं मंत्रमुदीरयेत्
नमोनमः पापविनाशनाय विश्वात्मने देवतुरंगमाय 4.187.
वस्वष्टकादित्यमरुद्गणानां त्वमेव धाता परमं निधानम्
इति तुरगरथप्रदानमेतद्भवभयसूदनमंत्रं यः करोति
देदीप्यमानवपुषा च जितप्रभावमाक्रम्य मडलमखंडलचंडभानोः
इति पठति शृणोति वा य एतत्कनकतुरंगरथप्रदानमस्मिन्
कृष्णाजिनदानविधिवर्णनम् ब्राह्मणं च समाचक्ष्व तत्र मे संशयो महान्
श्रीकृष्ण उवाच युगादिषूपरागेषु संक्रांतौ दिनसंक्षये
देयमेतन्महादानं द्रव्यमात्रागमे तथा
पुराणाभिरतो दक्षो देयं तस्मै च पार्थिव
गोमयेनोपलिप्ते तु शुचौ देशे नराधिप
कर्तव्यं रुक्मशृंगं तद्रौप्यदंतं तथैव च
तिलैः कृत्वा शिरो राजन्वाससाच्छादयेद्बुधः
पुष्पैर्गंधैः फलैश्चैव नैवेद्येन च पूजयेत्
कांस्यपात्राणि चत्वारि तेषु दद्याद्यथाक्रमम्
ततः सर्वसमीपे तु मंत्रमेतमुदीरयेत् 4.188.
त्वद्दानापास्तपापस्य प्रीयतां मे नमोनमः
कृष्णोऽसि मूर्तिमान्साक्षात्कृष्णाजिन नमोऽस्तु ते