तत्सर्वं स्थापयेत्पार्श्वे स्वयं संचिंत्य चेतसि
पूजयित्वा लोकपालान्गृहान्देवीं विनायकम्
इममुच्चारयेन्मंत्रं विप्रस्य पुरतो बुधः
सर्वरत्नसमायुक्ता तव विप्र निवेदिता 4.185.
तस्मादात्मप्रदानेन ममात्मा सुप्रसीदतु
ब्राह्मणश्चापि गृह्णीयात्कोदादिति च कीर्तयन्
विधिनानेन राजेन्द्र दानमेतत्प्रयच्छति
साग्रं वर्षशतं दिव्यं स्वर्गलोके सुरैर्वृतः
यत्रैवोत्पद्यते जंतुः प्राप्ते कर्मक्षये पुनः
इष्टबंधुजनैः सार्द्धं न वियोगं कदाचन
यश्चात्मनः प्रतिकृतिं वरवाहनस्था हैमीं विधाय धनधान्यसमाकुलां च
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आत्मप्रतिकृतिदानविधिवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः
हिरण्याश्वदानविधिवर्णनम् यस्य प्रसादात्पुरुषः शाश्वतं फलमश्नुते
पुण्यं दिनमथासाद्य पात्रं वापि गुणाधिकम्
खलीनालंकृतमुखं कारयेद्धेमवाजिनम्
स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि
संपूज्य कुसुमैः श्वेतैश्चणकान्विनिवेद्य च
इममुच्चारयेन्मंत्रं पुराणोक्तं यतव्रतः
वाजिरूपेण मामस्मात्पाहि संसारसागरात्
प्रदक्षिणं ततः कृत्वा प्रणिपत्य विसर्जयेत्
दत्त्वा पापक्षयाद्भानोर्लोकमाप्नोति शाश्वतम् 4.186.
पुराणश्रवणं तद्वत्कारयेद्भोजनादनु
इत्थं हिरण्याश्वविधिं करोति यः सुपुण्यमासाद्य दिनं नरेंद्र
इति पठति य इत्थं हैमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूपः
यो वा शृणोति पुरुषोऽप्यथ वा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमानम्
हिरण्याश्वरथदानविधिवर्णनम् पुण्यं हेमरथं नाम महापातकनाशनम्
पुण्येऽह्नि विप्रकथिते स्वनुलिप्ते गृहांगणे
चतुरस्रं महाभाग चतुश्चक्रं सकूबरम्
इंद्रनीलेन कुंभेन ध्वजरूपेण संयुतम्
चत्वारः पूर्णकलशा धान्यान्यष्टादशैव तु