शयनस्थस्य भवति यदन्यदुपकारकम्
शय्यामेवंविधां कृत्वा ब्राह्मणायोपदापयेत्
नमस्ते सर्वदेवेश शय्यादानं कृतं मया
यथा न कृष्ण शयनं शून्यं सागरजातया
दत्त्वैवं तल्पममलं प्रणिपत्य विसर्जयेत्
ददाति यदि धर्मार्थं मानवो बांधवे मृते
तेनोपभुक्तं यद्वस्तु किंचित्पूर्वं गृहे सता
यदिष्टं च तथास्यासीत्तत्सर्वं परिकल्पयेत्
पूजयित्वा प्रदातव्यो मृतशय्या यथोदिता
सुखं वसत्यसौ जंतुः शय्यादानप्रभावतः 4.184.
न धर्मेण न शीतेन बाध्यते स नरः क्वचित्
विमानवरमारूढः सेव्यमानोप्सरोगणैः
शय्याप्रदानममलं तव पांडुपुत्रसंकीर्तितं सकलसौख्यानिधानमेतत्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शय्यादानविधिवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः
आत्मप्रतिदानविधिवर्णनम् तत्तेऽहं संप्रवक्ष्यामि दानं मानविवर्धनम्
दानकालः सदा तस्य मुनिभिः परिकीर्तितः
लोहजां प्रकृतिं भव्यां कारयित्वात्मनो नृप
अभीष्टलोकसहितां सर्वोपस्करसंयुताम्
कुंकुमेनानुलिप्तांगीं कर्पूरागुरुवासिताम्
यद्यदिष्टतमं किंचित्तत्सर्वं पार्श्वतो न्यसेत्
तत्सर्वं स्थापयेत्पार्श्वे स्वयं संचिंत्य चेतसि
पूजयित्वा लोकपालान्गृहान्देवीं विनायकम्
इममुच्चारयेन्मंत्रं विप्रस्य पुरतो बुधः
सर्वरत्नसमायुक्ता तव विप्र निवेदिता 4.185.
तस्मादात्मप्रदानेन ममात्मा सुप्रसीदतु
ब्राह्मणश्चापि गृह्णीयात्कोदादिति च कीर्तयन्
विधिनानेन राजेन्द्र दानमेतत्प्रयच्छति
साग्रं वर्षशतं दिव्यं स्वर्गलोके सुरैर्वृतः
यत्रैवोत्पद्यते जंतुः प्राप्ते कर्मक्षये पुनः
इष्टबंधुजनैः सार्द्धं न वियोगं कदाचन