शय्यादानविधिवर्णनम् यद्दत्त्वा सुखभागी स्यादिह लोके परत्र च
शय्यादानं प्रयच्छंति सर्वदैव द्विजोत्तमाः
तावत्स बंधुः स पिता यावज्जीवति भारत
तस्मात्स्वयं प्रदातव्यं शय्याभोज्यजलादिकम्
आत्मैव यो हि नात्मानं दानभोगैः समर्चयेत्
तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम्
हंसतूलीप्रतिच्छन्नां सुभगां सोपधानिकाम्
तस्यां संस्थापयेद्धैमं हरिं लक्ष्मीसमन्वितम्
विज्ञेयं पांडव सदा सनिद्राकल्पकं बुधैः
दीपकोपानहच्छत्रचामरासनभोजनम् 4.184.
शयनस्थस्य भवति यदन्यदुपकारकम्
शय्यामेवंविधां कृत्वा ब्राह्मणायोपदापयेत्
नमस्ते सर्वदेवेश शय्यादानं कृतं मया
यथा न कृष्ण शयनं शून्यं सागरजातया
दत्त्वैवं तल्पममलं प्रणिपत्य विसर्जयेत्
ददाति यदि धर्मार्थं मानवो बांधवे मृते
तेनोपभुक्तं यद्वस्तु किंचित्पूर्वं गृहे सता
यदिष्टं च तथास्यासीत्तत्सर्वं परिकल्पयेत्
पूजयित्वा प्रदातव्यो मृतशय्या यथोदिता
सुखं वसत्यसौ जंतुः शय्यादानप्रभावतः 4.184.
न धर्मेण न शीतेन बाध्यते स नरः क्वचित्
विमानवरमारूढः सेव्यमानोप्सरोगणैः
शय्याप्रदानममलं तव पांडुपुत्रसंकीर्तितं सकलसौख्यानिधानमेतत्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शय्यादानविधिवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः
आत्मप्रतिदानविधिवर्णनम् तत्तेऽहं संप्रवक्ष्यामि दानं मानविवर्धनम्
दानकालः सदा तस्य मुनिभिः परिकीर्तितः
लोहजां प्रकृतिं भव्यां कारयित्वात्मनो नृप
अभीष्टलोकसहितां सर्वोपस्करसंयुताम्
कुंकुमेनानुलिप्तांगीं कर्पूरागुरुवासिताम्
यद्यदिष्टतमं किंचित्तत्सर्वं पार्श्वतो न्यसेत्