दानं प्रधानतरमेतदतीव विप्रे प्रोक्तं युधिष्ठिर समाधिधिया विचिंत्य
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सप्तसागरदानविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽ ध्यायः
महाभूतघटदानवर्णनम् महाभूतघटं नाम महापातकनाशनम्
पुण्यां तिथिं समासाद्य स्वनुलिप्ते गृहांगणे
प्रादेशादंगुलशतं यावत्कुर्यात्प्रमाणतः
क्षीराज्यपूरितं कृत्वा कल्पवृक्षसमन्वितम्
लोकपाला महेन्द्राश्च स्ववाहनसमास्थिताः
वीणाधारी सामवेदो ह्यथर्वा स्रक्छुभान्वितः
सप्तधान्यानि पुरतः स्थापयेच्छक्तितो बुधः
एवं प्रकल्प्य विधिवन्महाभूतघटं नरः
अथ पर्वसमीपे तु स्नात्वा नियतमानसः
यस्मान्न किंचिदप्यस्ति महाभूतैर्विना कृतम् 4.183.
अत्र सन्निहिता देवाः स्थापिता विश्वकर्मणा
इत्येवं पूजयित्वा तु महाभूतघटं नरः
महाभूतघटं दद्यात्पर्वकाले यतव्रतः
अनेन विधिना यश्च दानमेतत्प्रयच्छति
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः
क्षत्रधर्मरतो विद्वान्देवब्राह्मणपूजकः
अष्टापदोत्तमघटं विमलं विधाय ब्रह्मेशकेशवयुतं सहलोकपालैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महाभूतघटदान विधिवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः
शय्यादानविधिवर्णनम् यद्दत्त्वा सुखभागी स्यादिह लोके परत्र च
शय्यादानं प्रयच्छंति सर्वदैव द्विजोत्तमाः
तावत्स बंधुः स पिता यावज्जीवति भारत
तस्मात्स्वयं प्रदातव्यं शय्याभोज्यजलादिकम्
आत्मैव यो हि नात्मानं दानभोगैः समर्चयेत्
तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम्
हंसतूलीप्रतिच्छन्नां सुभगां सोपधानिकाम्
तस्यां संस्थापयेद्धैमं हरिं लक्ष्मीसमन्वितम्
विज्ञेयं पांडव सदा सनिद्राकल्पकं बुधैः
दीपकोपानहच्छत्रचामरासनभोजनम् 4.184.