नापमृत्युभयं तस्य न च व्याधिकृतं भयम्
देहांते सूर्यभवनं भित्त्वा याति परं पदम् संतत्या च श्रिया युक्तः पुत्रपौत्रसमन्वितः
संपूज्य कालपुरुषं विधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतुभूतः
सप्तसागरदानविधिवर्णनम् सप्तसागरकं नाम सर्वपापप्रणाशनम्
पुण्यं दिनमथासाद्य युगादिग्रहणादिकम्
प्रादेशमात्राणि तथा रत्निमात्राणि वा पुनः
संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि
द्वितीयं पयसा तद्वत्तृतीयं सर्पिषा पुनः
षष्ठं शर्करया तद्वत्सप्तमं तीर्थवारिणा
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम्
शर्करायां न्यसेल्लक्ष्मीं जलमध्ये तु पार्वतीम्
स्थापयेत्पुरुषश्रेष्ठ यथालाभं यथासुखम्
त्रिःप्रदक्षिणमावृत्य मंत्रानेतानुदीरयेत् 4.182.
जंतूनां प्राणदेभ्यश्च समुद्रेभ्य नमोनमः
दध्ना शर्करया तद्वत्तीर्थवारिभिरेव च
अलक्ष्मीः प्रशमं यातु लक्ष्मीश्चास्तु गृहे मम
एकमेवमथाभ्यर्च्य पुष्पवस्त्रविलेपनैः
देयं वा सर्वसामान्यं क्रियाविप्रानुरूपतः
तस्य गृहान्न चलति लक्ष्मीर्यावत्कुलाष्टकम्
देवलोकान्न च्यवते सप्तमन्वतराण्यसौ
दानं प्रधानतरमेतदतीव विप्रे प्रोक्तं युधिष्ठिर समाधिधिया विचिंत्य
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सप्तसागरदानविधिवर्णनं नाम द्व्यशीत्युत्तरशततमोऽ ध्यायः
महाभूतघटदानवर्णनम् महाभूतघटं नाम महापातकनाशनम्
पुण्यां तिथिं समासाद्य स्वनुलिप्ते गृहांगणे
प्रादेशादंगुलशतं यावत्कुर्यात्प्रमाणतः
क्षीराज्यपूरितं कृत्वा कल्पवृक्षसमन्वितम्
लोकपाला महेन्द्राश्च स्ववाहनसमास्थिताः
वीणाधारी सामवेदो ह्यथर्वा स्रक्छुभान्वितः
सप्तधान्यानि पुरतः स्थापयेच्छक्तितो बुधः
एवं प्रकल्प्य विधिवन्महाभूतघटं नरः