काम्यो दानविधिः पार्थ क्रियमाणः प्रयत्नतः
ज्ञेयं निष्कशतं सर्वदानेषु विधिरुत्तमः
एवं वृक्षरथेंद्राणां धेनोः कृष्णाजिनस्य च
अतोऽन्यूनेन यो दद्यान्महादानं नराधिप
आदौ तावत्प्रवक्ष्यामि कालाख्यं पुरुषं तव
अर्ध्यप्रदानमंत्रोक्त मात्मप्रतिकृतिस्तथा 4.181.
सर्वदानोत्तमं राजन्कृष्णाजिनमथाष्टमम्
एतत्ते दानदशकं वेद्मि पार्थिवसत्तम
दानादृते नोपकारो विद्यते धनिनोऽपरः
कूप उल्लिख्यमानोऽपि भवत्येव बहूदकः
चतुर्थ्यां वा चतुर्दश्यां विष्ट्यां वा पांडुनंदन
खड्गोद्यतकरो दीर्णो जपा कुसुमकुंडलः
तीक्ष्णासिपत्रधनुषा विस्फारितकटीतटः
गृहीतमांसपिंडश्च वामे करतले तथा
संपूज्य गंधकुसुमैर्नैवेद्यं विनिवेद्य च
स्वगृह्योक्तविधानेन शतमष्टोत्तरं यजेत् 4.181.
ब्रह्मविष्णुशिवादीनां त्वमसाध्योऽसि सुव्रत
पूजितस्त्वं मया भक्त्या प्रार्थितश्च तथा सुखम्
एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत्
दक्षिणां शक्तितो दद्यात्प्रणिपत्य विसर्जयेत्
नापमृत्युभयं तस्य न च व्याधिकृतं भयम्
देहांते सूर्यभवनं भित्त्वा याति परं पदम् संतत्या च श्रिया युक्तः पुत्रपौत्रसमन्वितः
संपूज्य कालपुरुषं विधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतुभूतः
सप्तसागरदानविधिवर्णनम् सप्तसागरकं नाम सर्वपापप्रणाशनम्
पुण्यं दिनमथासाद्य युगादिग्रहणादिकम्
प्रादेशमात्राणि तथा रत्निमात्राणि वा पुनः
संस्थाप्यानि च सर्वाणि कृष्णाजिनतिलोपरि
द्वितीयं पयसा तद्वत्तृतीयं सर्पिषा पुनः
षष्ठं शर्करया तद्वत्सप्तमं तीर्थवारिणा
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम्