एवं विधिं ततः कृत्वा रथं तं सगजं नरः
भूषितं कण्ठकटकैः कर्णवेष्टांगुलीयकैः
बद्धतूणिं धनुष्पाणिं बहुचर्मविभूषितम्
यजमानस्ततः प्राज्ञः शुक्लांबरधरः शुचिः
इममुच्चारयेन्मन्त्रं सर्वपापप्रणाशनम् सुप्रतीकोंजनः सार्वभौमोऽष्टौ देवयोनयः
तेषां वंशप्रसूतौ तु बलरूपसमन्वितौ 4.180.
ममेभरथदानेन प्रीयेतां शिवकेशवौ
इत्युच्चार्य महाभागे पूजयित्वा पुनःपुनः
स्वदारनिरतं शांतं वेदवेदांगपारगम्
पुनः प्रदक्षिणीकृत्य रथस्थं द्विजसत्तमम्
ततो यज्ञावसाने तु दीनांधादीञ्जडान्कृशान्
अनेनैव विधानेन संकल्प्य रथमुत्तमम्
तदेव होमद्रव्यं च होममंत्रास्त एव हि
हयौ लक्षणसंयुक्तौ खलीनालंकृताननौ
सुप्रग्रहयुतौ योज्यौ दाता तस्मिन्नथोत्तमे
नमोस्तु ते वेदतुरंगमाय त्रयीमयाय त्रिगुणात्मकाय 4.180.
रथोऽयं सविता साक्षाद्वेदाश्चामी तुरंगमाः
इत्युच्चार्य ततस्तस्मिन्रथे ब्राह्मणसत्तमम्
अनेन विधिना यस्तु दद्याद्वाजिरथं बुधः
सर्वपापविनिर्मुक्तः सर्वामयविवर्जितः
अप्सरोगणसंकीर्णे विमाने सूर्यवर्चसे
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः
गजेनैकेन निर्दिष्टः कश्चिद्गजरथो नृप
दानमंत्रास्त एवोक्ताः फलं तत्र निगद्यते
यच्छंति ये रथवरं सुधुराक्षचक्रं विक्रांतवारणयुतं तुरगान्वितं वा
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गजरथा श्वरथदानविधिवर्णनं नामाशीत्युत्तरशततमोऽध्यायः
कालपुरुषदानविधिवर्णनम् युधिष्ठिर उवाच दानान्यन्यानि मे कृष्ण कथयस्व यदूत्तम
संसारसागरोत्तारहेतुभूतोऽसि माधव
पुनरेव प्रवक्ष्यामि यद्यस्ति तव कौतुकम्
कथितानि मया तुभ्यं कथयिष्यामि यानि च