तस्य पुण्यफलं राजन्कथ्यमानं निबोध मे
मृतो लोकाधिपपुरे प्रतिमन्वतरं वसेत्
जितसर्वमहीपालश्चक्रवर्ती भवेद्भुवि
सा चक्रवर्तिनं पुत्रं सूते शक्तिसमन्वितम्
शृणोति वाच्यमानं च सोपि प्रेत्य विमुच्यते
याः शक्रवह्नियमनैर्ऋतपाशहस्ता वातेंदुराजशिवकेशवशंभुशक्त्यः
गजरथाश्वरथदानविधिवर्णनम् कानि दानानि देयानि पवित्राणि शुभानि च
अन्यैर्वा पुरुषैः कृष्ण अधर्मभयभीरुभिः
इह लोके परे चैव विहितं सर्वकामदम्
विशेषेण महीपानां हिताय च न संशयः
दानानि बहुरूपाणि नानाशास्त्रोदितानि च
किं तु प्रधानमेकं ते दानं वक्ष्यामि भारत
आधयो व्याधयश्चैव ग्रहपीडा सुदारुणाः
येन दत्तेन नश्यंति पुण्यमाप्नोति चोत्तमम्
दानमेतत्प्रदातव्यं विषुवे सूर्यसंक्रमे
संस्थाप्य दारुजं दिव्यं हेमपट्टैरलंकृतम् 4.180.
सुवर्णध्वजसंयुक्तं सितासितपताकिनम्
नद्यास्तीरेऽथ वा गोष्ठे विचित्रे वा गृहांगणे
पुराणवेदविद्यावान्विनयाचारसंयुतः
मध्ये ब्रह्मा प्रतिष्ठाप्यः पूजयेत्प्रणवेन तम्
सूक्तेन रुद्रं रौद्रेण दक्षिणस्यां समर्चयेत् पुष्पैर्गंधैः फलैर्भक्ष्यैर्दीपमालाभिरेव च
पूजयेद्गंधकुसुमैः श्वेतवस्त्रैः सचंदनैः
ब्रह्मघोषविमिश्रैश्च कारयेत महोत्सवम्
आग्नेय्यां दिशि राजेंद्र ब्राह्मणांस्तत्र पूजयेत्
चतुरोष्टौ महाराज गुरुरेकोऽथवा भवेत्
अग्निकार्यं ततः कुर्याद्यथावद्विधिपूर्वकम् 4.180.
विष्णवे शितिकण्ठाय मंत्रैः पूर्वोदितैः शुभैः
एवं यज्ञविधिं कृत्वा यजमानो द्विजैः सह
विचित्रतनुसंवीतौ शुभकक्षौ सुघंटिकी
दिव्यमुक्तापरिच्छन्नौ दिव्यांकुशसमन्वितौ