सुरभीसंयुतं तद्वत्तिलेषु हरिचंदनम्
तथाष्टौ पूर्णकलशान्समंतात्परिकल्पयेत्
धान्यानि चैव सर्वाणि समंतात्परिकल्पयेत्
दीपमाला विचित्राश्च ज्वालयेत समंततः 4.178.
कामदस्त्वं हि देवानां कामवृक्षस्ततः स्मृतः
एवं संपूज्य विधिना जागरं तत्र कारयेत्
होमं च ब्राह्मणाः कुर्युर्मद्गतेनांतरात्मना
तल्लिंगैः स्थापितान्देवान्होमेनाप्याययेत्ततः
अयुतेन भवेत्सिद्धिर्यज्ञस्य वरवर्णिनि
दद्यात्पर्वसमीपे तु कल्पवृक्षं सद क्षिणम्
नमस्ते कल्पवृक्षाय विततार्थप्रदाय च
यस्मात्त्वमेव विश्वात्मा ब्रह्मस्थाणुदिवाकराः
एवमामन्त्र्य तं दृष्ट्वा गुरवे कल्पपादपम्
अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।। 4.178.
विमानवरमारुह्य सूर्यतेजःसमप्रभम्
याति लोकं सुरेशस्य सर्वबाधाविवर्जि तम्
यज्वा शूरोऽपि विद्वांश्च नरो भवति धार्मिकः
कल्पलतादानविधिवर्णनम् अनुग्रहाय लोकानां कथयस्व ममापरम्
तन्मे कथय देवेश दानं व्रतमथापि वा
येनोपायेन जायंते सभाग्या मानवा भुवि
न व्रतैर्नोपवासैश्च न तीर्थगमनैरपि
प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि
वक्ष्ये कल्पलतादानं शोभनं विधिपूर्वकम्
दिक्पालेभ्यो बलिं तत्र क्षिपेद्वै विधिपूर्वकम्
ततो ग्रहमखं कुर्याद्धोमं व्याहृतिभिस्ततः
ततः सर्वसमीपे तु स्नातः शुक्लांबरः शुचिः ततः प्रदक्षिणीकृत्य मंत्रानेतानुदीरयेत्
नमो नमः पापविनाशिनीभ्यो ब्रह्मांडलोकेश्वरपालनीभ्यः 4.179.
या यस्य शक्तिः परमा प्रदिष्टा वेदे पुराणे सुरसत्तमस्य
एवमुच्चार्य ताः सर्वा ब्राह्मणेभ्यो निवेदयेत्
ततः क्षमापयेद्विप्रान्प्रणिपत्य सदक्षिणान्