सूत उवाच स्वर्गते विक्रमादित्ये राजानो बहुधाऽभवन्
पश्चिमे सिंधुनद्यंते सेतुबन्धे हि दक्षिणे 3.3.2.१
अष्टादशैव राष्ट्राणि तेषां मध्ये बभूविरे
अन्तर्वेदी व्रजथ्यैवाजमेरं मरुधन्व च
आवंत्यं चोडुपं वंगं गौडं मागधमेव च
नानाभाषाः स्थितास्तत्र बहुधर्मप्रवर्तकाः
श्रुत्वा धर्मविनाशं च बहुवृंदैः समन्विताः
हिमपर्वतमार्गेण सिंधुमार्गेण चागमन्
गृहीत्वा योषितस्तेषां परं हर्षमुपाययुः
विक्रमादित्यपौत्रश्च पितृराज्यं गृहीतवान्
बाह्लीकान्कामरूपांश्च रोमजान्खुरजा च्छठान्
स्थापिता तेन मर्य्यादा म्लेच्छार्याणां पृथक्पृथक् 3.3.2.
म्लेच्छस्थानं परं सिन्धोः कृतं तेन महात्मना
हूणदेशस्य मध्ये वै गिरिस्थं पुरुषं शुभम्
को भवानिति तं प्राह स होवाच मुदान्वितः
म्लेच्छधर्मस्य वक्तारं सत्यव्रतपरायणम्
श्रुत्वोवाच महाराज प्राप्ते सत्यस्य संक्षये
ईशामसी च दस्यूनां प्रादुर्भूता भयंकरी
म्लेच्छेषु स्थापितो धर्मो मया तच्छृणु भूपते
नैगमं जपमास्थाय जपेत निर्मलं परम्
ध्यानेन पूजयेदीशं सूर्यमंडलसंस्थितम् । अचलोऽयं प्रभुः साक्षात्तथा सूर्योचलः सदा
तत्त्वानां चलभूतानां कर्षणः स समंततः 3.3.2.
ईशमूर्तिर्हृदि प्राप्ता नित्यशुद्धा शिवंकरी
इति श्रुत्वा स भूपालो नत्वा तं म्लेच्छपूजकम्
स्वराज्यं प्राप्तवान्राजा हयमेधमचीकरत् स्वर्गते नृपतौ तस्मिन्यथा चासीत्तथा शृणु
श्रीसूत उवाच शालिवाहनवंशे च राजानो दश चाभवन्
मर्य्यादा क्रमतो लीना जाता भूमंडले तदा दृष्ट्वा प्रक्षीणमर्य्यादां बली दिग्विजयं ययौ
सेनया दशसाहस्र्या कालिदासेन संयुतः
जित्वा गांधारजान्म्लेच्छान्काश्मीरान्नारवाञ्छठान्
एतस्मिन्नन्तरे म्लेच्छ आचार्य्येण समन्वितः