नारी वा पुरुषो वापि दानस्यास्य प्रभावतः
सोऽपि सद्गतिमाप्नोति किं पुनर्यः प्रयच्छति
ब्रह्मांडखंडयुगलं सकुलाचलं च दिग्भागसागरसरोवरसिद्धजुष्टम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे ब्रह्मांडदानविधिवर्णनं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः
कल्पवृक्षदानविधिवर्णनम् रममाणस्तया सार्द्धं बहुवर्षगणान्स्थितः
ततः सुरगणाः सर्वे परं त्रासमुपागताः
वैश्वानरमुखा देवा महादेवं त्रिलोचनम्
मयि प्रसन्ने विबुधा दुर्लभं हि न किंचन
मोघो भवतु देवेश भीताः स्म तनयस्य ते
अनपत्यश्च देवेश भव भूतपते सदा
स्थाणुवच्च स्थितश्चास्मि नाम चैतद्भविष्यति
ततः क्रुद्धा उमा तेषां देवानां वाक्यमब्रवीत्
यस्मात्तस्माद्भवंतोऽपि न पुत्राञ्जनयिष्यथ
दत्त्वा शापं ततो देवी देवानामाह शंकरम् 4.178.
अपुत्रस्य गतिर्नास्ति इतीयं श्रूयते श्रुतिः
सौवर्णस्तेन दातव्यः कल्पवृक्षो गुणान्वितः
कृत्रिमं वापि गृह्णीयाद्वृक्षं वा स्थावरादिकम्
तेन पुत्रवतां लोका देवि तस्य न संशयः
बहुशाखः सुवर्णांगोप्यनेककुसुमान्वितः
फलानि तस्य दिव्यानि सौवर्णानि प्रकल्पयेत्
दानमेतत्प्रदातव्यं राजतं चैवमुत्तमम्
चतुष्कोणेषु कुर्वीत चतुरः कांचनद्रुमान्
सहस्रेण तदर्द्धेन तस्याप्यर्द्धेन वा पुनः
प्रागुदक्प्रवणे देशे मंडपं तत्र कारयेत् 4.178.
हस्तमात्रप्रमाणेन कुंडमेकं सुशोभनम्
तत्र वै ब्राह्मणा योज्या ऋग्यजुःसामपाठकाः
सर्वाभरणसंपन्नास्ताम्रपत्रद्वयान्विताः
गुडप्रस्थोपरिष्टाच्च स्थापयेत्कल्पपादपम्
कामदेवमधस्ताच्च सकलत्र प्रयोजयेत्
मंदारं दक्षिणे पार्श्वे श्रिया सह तथा घृते