अनेन विधिना दत्त्वा यत्पुण्यं स्यान्नरोत्तम
आसीदादियुगे राजा सुद्युम्नो नाम भारत
ततः संस्थाप्य तनयं राजा राज्ये वनं ययौ
प्रविश्य च वनं घोरं तपस्तीव्रं चचार ह
कालेन महता राजा दिष्टांतमगमत्पुरा
अतीत्य शक्रलोकादीन्ब्रह्मलोकमितो गतः
दिव्यं कनकचित्रांगं रत्नालंकृतविग्रहम् 4.177.
आस्ते चानुदिनं सोऽथ दिव्यभोगविवर्जितः
बुभुक्षया नरश्रेष्ठ तथात्यंतपिपासया
भगवन्ब्रह्मलोकोऽयं सर्वदोषविवर्जितः
केन कर्म विपाकेन क्षुधा मे नापसर्पति
नैव दत्तं तु बहुलमात्मवादरतेन वै
दानं बंधात्मकं मत्वा तस्माद्दत्तं त्वया न हि
उपदेशप्रदानेन प्रसादं कर्तुमर्हसि
प्रयच्छ द्विजमुख्यानां तेन तृप्तिमवाप्स्यसि
इत्युक्तः सम्यगागत्य मर्त्यलोकं महीपतिः
स जगाम पुनः स्वर्गं लेभे तृप्तिं च शाश्वतीम् 4.177.
ब्रह्मांडं यः प्रयच्छेत तेन दत्तं चराचरम्
तारयेत्कुलजान्दत्त्वा भविष्यांश्च न संशयः
पुनर्मानुष्यमभ्येत्य धार्मिको जायते कुले
नारी वा पुरुषो वापि दानस्यास्य प्रभावतः
सोऽपि सद्गतिमाप्नोति किं पुनर्यः प्रयच्छति
ब्रह्मांडखंडयुगलं सकुलाचलं च दिग्भागसागरसरोवरसिद्धजुष्टम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे ब्रह्मांडदानविधिवर्णनं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः
कल्पवृक्षदानविधिवर्णनम् रममाणस्तया सार्द्धं बहुवर्षगणान्स्थितः
ततः सुरगणाः सर्वे परं त्रासमुपागताः
वैश्वानरमुखा देवा महादेवं त्रिलोचनम्
मयि प्रसन्ने विबुधा दुर्लभं हि न किंचन
मोघो भवतु देवेश भीताः स्म तनयस्य ते
अनपत्यश्च देवेश भव भूतपते सदा