देवासुरमनुष्यैश्च गन्धर्वोरगराक्षसैः विमानशतकोटीभिर्भूषितं चाप्सरोवरैः
दिग्गजाष्टकसंयुक्तं मध्यस्थितचतुर्मुखम्
तस्यांगे कल्पयेद्राजन्भुवनानि चतुर्दश
कुर्याद्विंशत्पलादूर्ध्वमासहस्राच्च भक्तितः
शिल्पिना विहितं यस्माद्ब्रह्मांडं सर्वकामदम्
अन्येष्वपि तु कालेषु श्रद्धावित्तसमन्वितः
तिलद्रोणोपरिगतं कंकुमक्षोदचर्चितम् 4.177.
तस्य दिक्षु च सर्वासु पूर्णकुम्भांश्च विन्यसेत्
गृहे वा मंडपे वापि स्थापयेत्तद्विचक्षणः
संयुक्तं कारयेत्तत्र पयस्विन्या तथैव च
चतुश्चारणिकास्तत्र होमं कुर्युर्द्विजोत्तमाः
प्रचरेयुर्द्विजास्तत्र उपाध्यायसमन्विताः
इतरेषां तु पञ्चैव कुर्युर्यज्ञमतंद्रिताः
ब्रह्मविष्णुशिवानां च तन्नाम्ना जुहुयात्तिलान्
रुद्रजापस्तु कर्तव्यस्तस्यैवानंतरं द्विजैः
ब्रह्मांडं पूजयेद्भक्त्या गृहीतकुसुमांजलिः
वाङ्मयांत निमग्नाय ब्रह्मांड शुभकृद्भव 4.177.
तानि सर्वाणि मे तुष्टिं प्रयच्छत्वतुलां सदा
नक्षत्राणि तथा नागा ऋषयो मरुतस्तथा
इत्युच्चार्य ततो दद्याद्ब्रह्मांडं सर्वकामदम्
अनेन विधिना दत्त्वा यत्पुण्यं स्यान्नरोत्तम
आसीदादियुगे राजा सुद्युम्नो नाम भारत
ततः संस्थाप्य तनयं राजा राज्ये वनं ययौ
प्रविश्य च वनं घोरं तपस्तीव्रं चचार ह
कालेन महता राजा दिष्टांतमगमत्पुरा
अतीत्य शक्रलोकादीन्ब्रह्मलोकमितो गतः
दिव्यं कनकचित्रांगं रत्नालंकृतविग्रहम् 4.177.
आस्ते चानुदिनं सोऽथ दिव्यभोगविवर्जितः
बुभुक्षया नरश्रेष्ठ तथात्यंतपिपासया
भगवन्ब्रह्मलोकोऽयं सर्वदोषविवर्जितः