इत्युच्चार्य स्वयं भक्त्या कृत्वा चैव प्रदक्षिणाम्
सौवर्णं धर्मराजं तु सव्ये कृत्वा करे ततः
जान्वोरंतरतश्चैव शिरः कृत्वा समाहितः
गर्भाधानं पुंसवनं सीमंतोन्नयनं तथा
जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः
तावन्मुखं न पश्येत कस्यचिन्नृपसत्तम
ततः स्नानं प्रकुर्वीत ब्रह्मघोषपुरःसरम् 4.176.
रौप्यैरौदुंबरैर्वापि मृण्मयैर्वा सुशोभनैः
पुष्पैरावेष्टितग्रीवैरव्रणैः कलशैर्दृढैः
तत्र स्थाप्य महाभाग यजमानं द्विजोत्तमाः
अद्य जातस्य तेंऽगानि अभिषेक्ष्यामहे वयम्
एवं कृताभिषेकस्तु यजमानः समाहितः
तान्संपूज्य च भावेन बहुभ्यो वा तदाज्ञया
पादुकोपानहौ चैव च्छत्रचामरभाजनम्
तेषां चैव प्रदातव्यं दानं चात्र विशेषतः
अन्नसत्रं च कर्तव्यं यावद्दानपरिग्रहः
स कुलं तारयेत्सर्वं देवलोकं स गच्छति 4.176.
वापीकूपतडागाद्यैर्जलस्थानैरलंकृतम्
प्रासादशतसंकीर्णं वरस्त्रीशतसेवितम्
भूमयो यत्र राजेन्द्र दिव्या मणिमयाः शुभाः
धृतं स्तम्भसहस्रेण सुकृतं विश्वकर्मणा
तदारुह्य विमानाग्र्यं विद्याधरगणैर्युतम्
मन्वन्तरशते जाते कर्मभूमौ प्रजायते
धार्मिकः सत्यशीलश्च ब्रह्मण्यो गुरुवत्सलः
यस्त्विदं शृणुयाद्भक्त्या रहस्यं पापनाशनम्
गर्भं हिरण्यरचितं विधिवत्प्रविश्य संस्कारसंस्कृततनुः पुनरेव तस्मात्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्यगर्भदानविधिवर्णनं नाम षट्सप्तत्युत्तरशतत तमोऽध्यायः
ब्रह्माण्डदानविधिवर्णनम् शृणु त्वं राजशार्दूल कथ्यमानं मयाधुना
येन दत्तेन राजेन्द्र सर्वं पापं व्यपोहति
मंगल्यं मंगलं पुण्यं सर्वदानेषु चोत्तमम् ब्रह्मांडं कांचनं कृत्वा सर्वलक्षणसंयुतम्