दात्रं सपट्टिकं चैव सर्वोपस्करणान्वितम्
पार्श्वतः स्थापयेत्तस्य हेमदंडकमंडलू
एवं लक्षणसंयुक्तं कृत्वा गर्भं विचक्षणः
हस्तिना शकटेनाथ राजन्ब्रह्मरथेन वा
तिलद्रोणोपरिगतं वेदीमध्येऽधिवासयेत्
कौशेयवाससी शुभ्रे ततस्तं परिधापयेत्
धूपैः सुधूपितं कृत्वा मंत्रमेतमुदीरयेत् 4.176.
ब्रह्मादयस्तथा देवा नमस्ते भुवनोद्भव
नमो हिरण्यगर्भाय गर्भे यस्य पितामहः
वेद्याश्चतुर्दिशं चैव कुंडानि परिकल्पयेत्
चतुश्चारणिकास्तत्र ब्राह्मणा मंत्रपारगाः
सर्वाभरणसंपन्नाः सर्वे चाहतवाससः
वेद्याः पूर्वोत्तरे भागे ग्रहवेदिं प्रकल्पयेत्
पूजयेत्स्वर्णघटितान्पुष्पधूपविलेपनैः
कुंभद्वयं च द्वारेषु स्थापयेद्रत्नसंयुतम्
पालाश्यः समिधस्तत्र प्रशस्ता होमकर्मणि
स्वलिंगैर्होमयेत्पूर्वं मंत्रैर्व्याहृतिभिः पुमान् 4.176.
यजमानस्ततः स्नात्वा शुक्लांबरधरः शुचिः
नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः
मात्राहं जनितः पूर्व मर्त्यधर्मासुरोत्तम
इत्युच्चार्य स्वयं भक्त्या कृत्वा चैव प्रदक्षिणाम्
सौवर्णं धर्मराजं तु सव्ये कृत्वा करे ततः
जान्वोरंतरतश्चैव शिरः कृत्वा समाहितः
गर्भाधानं पुंसवनं सीमंतोन्नयनं तथा
जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः
तावन्मुखं न पश्येत कस्यचिन्नृपसत्तम
ततः स्नानं प्रकुर्वीत ब्रह्मघोषपुरःसरम् 4.176.
रौप्यैरौदुंबरैर्वापि मृण्मयैर्वा सुशोभनैः
पुष्पैरावेष्टितग्रीवैरव्रणैः कलशैर्दृढैः
तत्र स्थाप्य महाभाग यजमानं द्विजोत्तमाः