येनोपायेन जायंते मत्तुल्या मानवा भुवि
न व्रतैनोपवासैश्च न तीर्थगमनैरपि
प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि
प्रयाति ब्रह्मसालोक्यं श्रुतिरेषा सनातनी
दानं हिरण्यगर्भाख्यं कथ्यमानं निबोध मे
पवित्रं सर्वभूतानां पावनं परमं महत्
तदपां गर्भमाविश्य पुनर्जातं तु भूतले 4.176.
यत्प्रमाणं यथाचैतद्दातव्यं परमेश्वर
अयने विषुवे चैव ग्रहणे शशिसूर्ययोः
व्यतीपातेऽथ कार्तिक्यां जन्मर्क्षे वा नरोत्तम
प्रयागे नैमिषे चैव कुरुक्षेत्रे तथार्बुदे
पुण्यनद्यश्च दानेस्मिन्प्रशस्ताः स्युर्न संशयः
आरामे वा तडागे वा शुचौ देशे विधानतः
हस्ता द्वादश कर्तव्यं मंडपं तु सुशोभनम्
तन्मध्ये वेदिकां कुर्यात्पंचहस्तामलकृताम्
हिरण्यगर्भं तन्मध्ये प्रथमेऽहनि कल्पयेत्
शिल्पिनं पूजयेत्पूर्वं वासोभिर्भूषणैस्तथा 4.176.
सुवर्णेन संशुद्धेन शक्तितः कारयेद्बुधः
त्रिभागहीनं वदने मूले तस्यार्द्धविस्तरम्
पिधानमुपरिष्टाच्च कर्तव्यं चांगुलाधिकम्
दात्रं सपट्टिकं चैव सर्वोपस्करणान्वितम्
पार्श्वतः स्थापयेत्तस्य हेमदंडकमंडलू
एवं लक्षणसंयुक्तं कृत्वा गर्भं विचक्षणः
हस्तिना शकटेनाथ राजन्ब्रह्मरथेन वा
तिलद्रोणोपरिगतं वेदीमध्येऽधिवासयेत्
कौशेयवाससी शुभ्रे ततस्तं परिधापयेत्
धूपैः सुधूपितं कृत्वा मंत्रमेतमुदीरयेत् 4.176.
ब्रह्मादयस्तथा देवा नमस्ते भुवनोद्भव
नमो हिरण्यगर्भाय गर्भे यस्य पितामहः
वेद्याश्चतुर्दिशं चैव कुंडानि परिकल्पयेत्