ततोऽवतीर्य गुरवे सर्वमर्द्धं निवेदयेत्
प्राप्य तेषामनुज्ञां वा तथान्येभ्योऽपि दापयेत्
न चिरं धारयेद्गेहे हेमसंप्रोक्षितं बुधः
रात्रिं परस्वीकर णाच्छ्रियं प्राप्नोत्यनुत्तमाम् ।। अनेनैव विधानेन केचिद्रौप्यमयं तथा त
कर्पूरेण तथेच्छंति केचिद्ब्राह्मणपुंगवाः
कुंकुमेन प्रयच्छंति लवणेन गुडेन च
विधिनानेन यो दद्या द्दानमेतत्समाहितः
विमानवरमास्थाय नारी वा पुरुषोऽपि वा
नानावृक्षाकुलं रम्यं नानागंधाधिवासितम्
शयनासनसंकीर्णं पताका भिरलंकृतम्
सर्वर्तुसुखदं रम्यं सर्वदुःखविवर्जितम्
मित्वा तत्र राजेंद्र कल्पमेकं निरामयः
विश्वेषां चैव देवानां देव राज पुरे तथा
धनदस्य पुरे स्थित्वा कल्पकोटिशतं नरः
यज्वा दानपतिर्धीमाञ्छत्रुपक्षक्षयंकरः
सोऽपि मुच्येत पापेन त्रिविधेन न संशयः
ब्रह्मेशकेशवपरोऽस्ति न पूजनीयो नैवाश्वमेधसदृशः क्रतुरस्ति कश्चित्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तुलापुरुषदानविधिवर्णनं नाम पंचसप्तत्युत्तरशततमोऽध्यायः
हिरण्यगर्भदानव्रतवर्णनम् अनुग्रहाय लोकानां कथयस्व ममापरम्
त्वत्तुल्यो जायते येन आयुषा यशसा श्रिया
येनोपायेन जायंते मत्तुल्या मानवा भुवि
न व्रतैनोपवासैश्च न तीर्थगमनैरपि
प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि
प्रयाति ब्रह्मसालोक्यं श्रुतिरेषा सनातनी
दानं हिरण्यगर्भाख्यं कथ्यमानं निबोध मे
पवित्रं सर्वभूतानां पावनं परमं महत्
तदपां गर्भमाविश्य पुनर्जातं तु भूतले 4.176.
यत्प्रमाणं यथाचैतद्दातव्यं परमेश्वर
अयने विषुवे चैव ग्रहणे शशिसूर्ययोः
व्यतीपातेऽथ कार्तिक्यां जन्मर्क्षे वा नरोत्तम