धर्माधर्मभृतां मध्ये स्थापितासि जगद्धिते
मां तोलयंती संसारादुद्धरात्र नमोस्तुते
स एकोऽधिष्ठितो देवि त्वयि तस्मान्नमो नमः
त्वं हरे तारयस्वास्मानस्मात्संसारसागरात्
प्रणम्य परया भक्त्या तां तुलामारुहेद्बुधः
धर्मराजमथादाय हेमसूर्येण संयुतम्
वामे यमं तथा गृह्य दक्षिणे च रविं तथा साम्यादभ्यधिकं यावत्कांचनं चातिनिर्मलम्
पुष्टिकामस्तु कुर्वीत भूमिसंस्थं नरेश्वर
नमस्ते सर्वभूतानां साक्षिभूते सनातने
त्वयोद्धृतं जगत्सर्वं सह स्थावरजंगमम्
ततोऽवतीर्य गुरवे सर्वमर्द्धं निवेदयेत्
प्राप्य तेषामनुज्ञां वा तथान्येभ्योऽपि दापयेत्
न चिरं धारयेद्गेहे हेमसंप्रोक्षितं बुधः
रात्रिं परस्वीकर णाच्छ्रियं प्राप्नोत्यनुत्तमाम् ।। अनेनैव विधानेन केचिद्रौप्यमयं तथा त
कर्पूरेण तथेच्छंति केचिद्ब्राह्मणपुंगवाः
कुंकुमेन प्रयच्छंति लवणेन गुडेन च
विधिनानेन यो दद्या द्दानमेतत्समाहितः
विमानवरमास्थाय नारी वा पुरुषोऽपि वा
नानावृक्षाकुलं रम्यं नानागंधाधिवासितम्
शयनासनसंकीर्णं पताका भिरलंकृतम्
सर्वर्तुसुखदं रम्यं सर्वदुःखविवर्जितम्
मित्वा तत्र राजेंद्र कल्पमेकं निरामयः
विश्वेषां चैव देवानां देव राज पुरे तथा
धनदस्य पुरे स्थित्वा कल्पकोटिशतं नरः
यज्वा दानपतिर्धीमाञ्छत्रुपक्षक्षयंकरः
सोऽपि मुच्येत पापेन त्रिविधेन न संशयः
ब्रह्मेशकेशवपरोऽस्ति न पूजनीयो नैवाश्वमेधसदृशः क्रतुरस्ति कश्चित्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तुलापुरुषदानविधिवर्णनं नाम पंचसप्तत्युत्तरशततमोऽध्यायः
हिरण्यगर्भदानव्रतवर्णनम् अनुग्रहाय लोकानां कथयस्व ममापरम्
त्वत्तुल्यो जायते येन आयुषा यशसा श्रिया