पूर्वोत्तरे हस्तमिता वेदिः कार्या सुशोभना
अर्चार्चनं च तत्रैव विरिंच्यच्युतयो र्नृप
तोरणानि च कार्याणि क्षीरवृक्षोद्भवानि च
पंचरत्नसमायुक्ताः सप्तधान्योपरिस्थिताः
यजुर्वेदविदौ याम्ये पश्चिमे सामवेदिनौ
अत्रैव केचिदिच्छंति ऋषयः षोडशर्त्विजः
होमद्रव्याणि सर्वाणि तिलाज्यं समिधस्तथा
लोकपालाः सुवर्णास्तु पताकाः परितः शुभाः
एतत्सर्वं समाहृत्य पुण्येऽहनि विचक्षणः
संपूर्णं यजमानाय दर्शयेद्यज्ञमंडपम्
शंखतूर्यनिनादेन वेदध्वनिरवेण च
एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश
( ॐ इंद्राय नमः) तेजोवता लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे नमस्ते
( ॐ अग्नये नमः शुभाशुभानंदकृतामधीश रक्षाध्वरं मे भगवन्नमस्ते
ॐ यमाय नमः) ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते
ॐ निर्ऋतये नमः विद्याधरेन्द्रामरगीयमान पाहि त्वमस्मान्भगवन्नमस्ते
( ॐ वरुणाय नमः प्राणाधिपः कालकवेः सहायो गृहाण पूजां भगवन्नमस्ते
( ॐ वायवेय नमः) एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम्
( ॐ सोमाय नमः लोकेन भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते
( ईशानाय नमः यक्षोरगेन्द्रामरलोकसंघैरनंत रक्षाध्वरमस्मदीयम्
( ॐ अनंताय नमः) एह्येहि विश्वाधिपते मुनींद्र लोकेश सार्द्धं पितृदेवताभिः
( ॐ ब्रह्मणे नमः) त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च
देवदानवगन्धर्वा यक्ष राक्षसपन्नगाः
सर्वे ममाध्वरे रक्षां प्रकुर्वंतु मुदान्विताः
कुंडलानि च हैमानि सूत्राणि कटकानि च
द्विगुणं गुरवे दद्याद्भूषणा च्छादनादिकम्
प्रणवादिस्वनाम्ना च स्वाहांतो होम उच्यते
ततो मंगलशब्देन स्थापितो वेदमंगलैः
शुक्लमाल्यांबरो भूत्वा तां तुलामभिमंत्रयेत्
साक्षिभूता जगद्धात्रि निर्मिता विश्वयोनिना