तस्या मध्ये तुलां दिव्यां स्थाप येद्विधिपूर्वकम्
स्तंभद्वयं महाराज स्थापयेत्सुदृढं नवम्
तिंदुको देवदारुश्च श्रीपर्णश्चाष्टमः स्मृतः
इत्यष्टौ वृक्षजातीयाः स्तंभास्ते परिकीर्तिताः
सुनिश्चलं ततः कृत्वा तिर्यक्काष्ठमथोपरि
समानजातिं तु तुलां तन्मध्ये योजयेद्दृढम्
कृष्णलोहमयौ तस्यां कर्णौ चापि प्रकल्पयेत्
एवंविधां तुलां कृत्वा नानारत्नैर्विभूषिताम्
स्तंभौ च वस्त्रसंयुक्तौ पुष्पमालाव लंबिनौ
कुण्डानि चात्र चत्वारि योनियुक्तानि कारयेत्
पूर्वोत्तरे हस्तमिता वेदिः कार्या सुशोभना
अर्चार्चनं च तत्रैव विरिंच्यच्युतयो र्नृप
तोरणानि च कार्याणि क्षीरवृक्षोद्भवानि च
पंचरत्नसमायुक्ताः सप्तधान्योपरिस्थिताः
यजुर्वेदविदौ याम्ये पश्चिमे सामवेदिनौ
अत्रैव केचिदिच्छंति ऋषयः षोडशर्त्विजः
होमद्रव्याणि सर्वाणि तिलाज्यं समिधस्तथा
लोकपालाः सुवर्णास्तु पताकाः परितः शुभाः
एतत्सर्वं समाहृत्य पुण्येऽहनि विचक्षणः
संपूर्णं यजमानाय दर्शयेद्यज्ञमंडपम्
शंखतूर्यनिनादेन वेदध्वनिरवेण च
एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश
( ॐ इंद्राय नमः) तेजोवता लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे नमस्ते
( ॐ अग्नये नमः शुभाशुभानंदकृतामधीश रक्षाध्वरं मे भगवन्नमस्ते
ॐ यमाय नमः) ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते
ॐ निर्ऋतये नमः विद्याधरेन्द्रामरगीयमान पाहि त्वमस्मान्भगवन्नमस्ते
( ॐ वरुणाय नमः प्राणाधिपः कालकवेः सहायो गृहाण पूजां भगवन्नमस्ते
( ॐ वायवेय नमः) एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम्
( ॐ सोमाय नमः लोकेन भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते
( ईशानाय नमः यक्षोरगेन्द्रामरलोकसंघैरनंत रक्षाध्वरमस्मदीयम्