प्राप्यते सद्गतिः पुंभिः स्त्रीभिश्च मुनिसत्तम
इच्छामः श्रोतुमेतत्ते राजा चायं यतव्रतः पुलस्त्य उवाच शृणुध्वं मुनयः सर्वे रहस्यं पापनारानम्
उत्तमं सर्व दानानां समवायं वदामि वः
कृतघ्नः कूटसाक्षी च मुच्यते पातकान्नरः
कृच्छ्रचांद्रायणाद्यैश्च तुलापुरुषसंज्ञितैः
कृच्छ्रचांद्रायणादीनि व्रतानि मुनिसत्तमाः
कायक्लेशेन सिध्यंति गृहस्थेषु न तानि वै
न तेषां कृच्छ्रसाध्योऽपि क्वचिद्धर्मः प्रशस्यते
तस्माद्बहिश्चरैः प्राणैरात्मा योज्यः सदा बुधैः
अपत्यं सुरमुख्यस्य ज्येष्ठं चैवं विभावसोः
विधूय सर्वपापानि सद्यो दिव्यतनुर्भवेत्
समाख्यातं नृपश्रेष्ठ तेभ्यश्च तन्मया श्रुतम् युधिष्ठिर उवाच तुलापुरुषदानस्य विधानं परमेश्वर
कथयस्व महाभाग मम भक्तानुकंपया श्रीकृष्ण उवाच शृणुष्वावहितो राजन्विधानं गदतो मम
तुलापुरुषसंज्ञस्य दानस्येह नृपोत्तम
चन्द्रसूर्यग्रहे यद्वा माघ्यां वा नृपसत्तम
यदा वा जायते वित्तं तदा देयमिदं भवेत्
केशेषु च गृहीतः सन्मृत्युना धर्ममाचरेत्
तदैव दानकालः स्यात्कारणं हि यतो मम मण्डपं कारयेद्विद्वांश्चतुर्भद्राननं बुधः
आर्द्रशाखान्वितं दिव्यं प्रागुदक्प्रवणं दृढम्
तन्मध्ये कारयेद्वेदिं हस्तमात्रोच्छ्रितां शुभाम्
तस्या मध्ये तुलां दिव्यां स्थाप येद्विधिपूर्वकम्
स्तंभद्वयं महाराज स्थापयेत्सुदृढं नवम्
तिंदुको देवदारुश्च श्रीपर्णश्चाष्टमः स्मृतः
इत्यष्टौ वृक्षजातीयाः स्तंभास्ते परिकीर्तिताः
सुनिश्चलं ततः कृत्वा तिर्यक्काष्ठमथोपरि
समानजातिं तु तुलां तन्मध्ये योजयेद्दृढम्
कृष्णलोहमयौ तस्यां कर्णौ चापि प्रकल्पयेत्
एवंविधां तुलां कृत्वा नानारत्नैर्विभूषिताम्
स्तंभौ च वस्त्रसंयुक्तौ पुष्पमालाव लंबिनौ
कुण्डानि चात्र चत्वारि योनियुक्तानि कारयेत्