वाजपेयसहस्रस्य सम्यगिष्टस्य यत्फलम्
शिवालये विष्णुगृहे सूर्यस्य भवनेऽथ वा
गोभूहिरण्यवासांसि शयनान्यासनानि च
धर्माधर्मं न जानाति विद्यया रहितः पुमान्
त्रैलोक्यं चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक्
चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया
क्षितिं वोपेत्य कालांते राजा भवति धार्मिकः
रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत्
दानं विशेषफलदं जगतीह नान्याद्विद्यां विहाय वदनाब्जकृताधिवासाम्
तुलापुरुषदानविधिवर्णनम् पालयामास वसुधां प्रजापतिरिवापरः
त्रिंशद्वर्षसहस्राणि पालयित्वा महीमिमाम्
राज्ये निक्षिप्य तनयान्सप्तद्वीपेषु सप्त सः
तपोवनगतं श्रुत्वा राजानं परमद्युतिम्
तानागतानृषीन्दृष्ट्वा तपोनिर्धूतकल्मषान्
पाद्यार्घ्याचमनीयेन प्रियप्रश्नोत्तरेण च
आजगाम महातेजाः पुलस्त्यो ब्रह्मणः सुतः
तं दृष्ट्वा मुनयः सर्वे स च राजा महारथः
कृत्वा तु संविदं तेन यथायोग्यं विधानतः
ततस्तु मुनयः सर्वे समा सीना यथासुखम्
ततः कथांते कस्मिंश्चिन्मुनयस्ते सराजकाः
प्राप्यते सद्गतिः पुंभिः स्त्रीभिश्च मुनिसत्तम
इच्छामः श्रोतुमेतत्ते राजा चायं यतव्रतः पुलस्त्य उवाच शृणुध्वं मुनयः सर्वे रहस्यं पापनारानम्
उत्तमं सर्व दानानां समवायं वदामि वः
कृतघ्नः कूटसाक्षी च मुच्यते पातकान्नरः
कृच्छ्रचांद्रायणाद्यैश्च तुलापुरुषसंज्ञितैः
कृच्छ्रचांद्रायणादीनि व्रतानि मुनिसत्तमाः
कायक्लेशेन सिध्यंति गृहस्थेषु न तानि वै
न तेषां कृच्छ्रसाध्योऽपि क्वचिद्धर्मः प्रशस्यते
तस्माद्बहिश्चरैः प्राणैरात्मा योज्यः सदा बुधैः
अपत्यं सुरमुख्यस्य ज्येष्ठं चैवं विभावसोः