विद्यादानविधिवर्णनम् युधिष्ठिर उवाच बहुप्रदानं गोदानं त्वत्तो विद्वञ्छ्रुतं मया
सांप्रतं यदुशार्दूल विद्यादानस्य यो विधिः
यथा देयं फलं यच्च दत्तेन कुरुनंदन
शुभेऽह्नि विप्रकथिते गोमयेन सुशोभनम्
पुष्पप्रकरसंछन्नं स्वस्तिकादि विभूषितम्
सौवर्णीं लेखनी कार्या रौप्यं च मषिभाजनम्
विनीतश्चाप्रमत्तश्च ततः प्रभृति लेखकः
समानि समशीर्षाणि वर्तुलानि धनानि च
निष्पादयित्वा तच्छास्त्रं शैवं वाप्यथ वैष्णवम्
संपूजयित्वा तच्छास्त्रं देयं गुणवते तदा 4.174.
वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेत्
अनेन विधिना दत्त्वा यत्फलं प्राप्नुयान्नरः
यत्पुण्यं तीर्थयात्रायां यत्पुण्यं यज्वनां तथा
कपिलानां सहस्रेण सम्यग्दत्तेन यत्फलम्
पुराणं भारतं वापि रामायणमथापि वा
प्रातरुत्थाय यः शिष्यानध्यापयति यत्नतः
उपाध्यायस्य यो वृत्तिं दत्त्वाऽध्यापयते जनः
छात्राणां भोजनाभ्यंगं वस्त्रं भिक्षामथापि वा
विवेको जीवितं दीर्घं धर्मकामार्थसंपदः
शास्त्रं शस्त्रकलाशिल्पं यो यदिच्छेदुपार्जितुम् 4.174.
वाजपेयसहस्रस्य सम्यगिष्टस्य यत्फलम्
शिवालये विष्णुगृहे सूर्यस्य भवनेऽथ वा
गोभूहिरण्यवासांसि शयनान्यासनानि च
धर्माधर्मं न जानाति विद्यया रहितः पुमान्
त्रैलोक्यं चतुरो वर्णाश्चत्वारश्चाश्रमाः पृथक्
चतुर्युगानि राजेंद्र एकसप्ततिसंख्यया
क्षितिं वोपेत्य कालांते राजा भवति धार्मिकः
रूपसौभाग्यसंपन्नो दीर्घायुर्नीरुजो भवेत्
दानं विशेषफलदं जगतीह नान्याद्विद्यां विहाय वदनाब्जकृताधिवासाम्
तुलापुरुषदानविधिवर्णनम् पालयामास वसुधां प्रजापतिरिवापरः