तस्यैवोद्यापनं कार्यं मासिमासि नरोत्तम
उद्दिश्य शंकरं विष्णुं ब्रह्माणं कुरुनन्दन 4.172.
एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः
(इति धर्मघटदानमंत्रः) अनेन विधिना यस्तु धर्मकुंभं प्रयच्छति
अश्वत्थरूपी भगवान्प्रीयतां मे जनार्दनः
यः करोति तरोर्मूले सेकं मासचतुष्टयम्
सुस्वादुशीतसलिला क्लमनाशिनी च प्रांते पुरस्य पथि पांथसमाजभूमौ
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रपादानविधिवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः
अग्नीष्टिकादानविधिवर्णनम् युधिष्ठिर उवाच अग्नीष्टिका कथं देया शिशिरे शीतभीरुभिः
अग्नीष्टिकामहं पार्थ कथयामि निबोध ताम्। यथा येन विधानेन सर्वसत्वसुखप्रदाम्
आदौ मार्गशिरे मासि शोभने दिवसे शुभाम्
देवांगणे पथे गेहे विस्तीर्णे चत्वरेथ वा
ततः प्रज्वालयेदग्निं हुत्वा व्याहृतिभिः क्रमात्
यदि कश्चित्क्षुधार्थी स्याद्भोज्यं तस्मै प्रकल्पयेत्
यः करोति कथाः पार्थ न ताः शक्या मयोदितुम्
वदेल्लोकः सुखासीनो न केनापि निवार्यते
तस्य पुण्यफलं राज न्कथ्यमानं निबोध मे
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च 4.173.
इह लोकेवतीर्णश्च चतुर्वेदो द्विजो भवेत्
चैत्ये सुरांगणसभावसथे सुभव्यां येऽग्नीष्टिकां प्रचुरकाष्ठवतीं प्रदद्युः
विद्यादानविधिवर्णनम् युधिष्ठिर उवाच बहुप्रदानं गोदानं त्वत्तो विद्वञ्छ्रुतं मया
सांप्रतं यदुशार्दूल विद्यादानस्य यो विधिः
यथा देयं फलं यच्च दत्तेन कुरुनंदन
शुभेऽह्नि विप्रकथिते गोमयेन सुशोभनम्
पुष्पप्रकरसंछन्नं स्वस्तिकादि विभूषितम्
सौवर्णीं लेखनी कार्या रौप्यं च मषिभाजनम्
विनीतश्चाप्रमत्तश्च ततः प्रभृति लेखकः
समानि समशीर्षाणि वर्तुलानि धनानि च
निष्पादयित्वा तच्छास्त्रं शैवं वाप्यथ वैष्णवम्
संपूजयित्वा तच्छास्त्रं देयं गुणवते तदा 4.174.