प्राप्यते यत्फलं पुंभिः पार्थ तत्केन वर्ण्यते
दासीं समीक्ष्य बहुशो गृहकर्मदक्षां यो ब्रह्मणाय कुलशीलवते ददाति
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दासीदानविधिवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः
प्रपादानविधिवर्णनम् कथं देया कदा देया दाने तस्याश्च किं फलम्
पुण्येऽह्नि विप्रकथिते ग्रहचंद्रबलान्विते
मंडपं कारयेद्विद्वान्घनच्छायं मनोरमम्
देवतायतने वापि चैत्यवृक्षतलेऽपि वा
कारयेन्मंडपं भव्यं शीतवातसहं दृढम्
अकालमूलान्करकान्वस्त्रैरावेष्टितानथ
प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः
एवंविधां प्रपां कृत्वा शुभेऽह्नि विधिपूर्वकम्
ततश्चोत्सर्जयेद्विप्रान्मंत्रेणानेन मानवः
अस्याः प्रदानात्पितरस्तृप्यंतु च पितामहाः 4.172.
त्रिपक्षं वा महाराज जीवानां जीवनं परम्
प्रदद्यादप्रतिहतं मुखं चानवलोकयन्
अनेन विधिना यस्तु ग्रीष्मोष्मशोषनाशनम्
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम्
पूर्णचंद्रप्रतीकाशं विमानं सोधिरुह्य च
विंशत्कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितः
ततः परं पदं याति पुनरावृत्तिदुर्लभम् १७४ प्रत्यहं धर्मघटकः कर्पटावेष्टिताननः
तस्यैवोद्यापनं कार्यं मासिमासि नरोत्तम
उद्दिश्य शंकरं विष्णुं ब्रह्माणं कुरुनन्दन 4.172.
एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः
(इति धर्मघटदानमंत्रः) अनेन विधिना यस्तु धर्मकुंभं प्रयच्छति
अश्वत्थरूपी भगवान्प्रीयतां मे जनार्दनः
यः करोति तरोर्मूले सेकं मासचतुष्टयम्
सुस्वादुशीतसलिला क्लमनाशिनी च प्रांते पुरस्य पथि पांथसमाजभूमौ
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे प्रपादानविधिवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः
अग्नीष्टिकादानविधिवर्णनम् युधिष्ठिर उवाच अग्नीष्टिका कथं देया शिशिरे शीतभीरुभिः
अग्नीष्टिकामहं पार्थ कथयामि निबोध ताम्। यथा येन विधानेन सर्वसत्वसुखप्रदाम्